Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad

View full book text
Previous | Next

Page 127
________________ - १२२ अनुमानपरिच्छेदः। सरिकमुत्पद्यतेग्थासन्किं न व्योमोत्पलम् । अथ प्रागभावना. वान व्योमोत्पलस्योत्पत्तिः । ननु प्रागभावेऽपि तस्य किमिति नास्ति । उत्तरकालमभावादितिचेत् । इतरेतराश्रयत्वम् । तथाहि-यस्योत्तरकालमुत्पत्तिस्तस्य प्रागभाव यस्य प्रागभावस्तस्योत्पत्तिरिति । तन्नै कान्तिकनित्येऽनित्ये वार्थक्रियायम. स्तीति नित्यात्मन्येवार्थ क्रियाकारित्वेन सत्त्वम् । तथाहिस एव मृत्पिण्डो घटरूपतया परिणतइति प्रतीतिः । यदपं हि कारणमुपलभ्यते तद्रूपमेव कार्यमपि । तदेव द्रव्यं तेन पर्यायेण परिणामदुपलभ्यते, नात्यन्तविभिन्न ममिन्नं वा घटादि। कार्य प्रतीयते । तदुक्तम्-द्रवति गच्छति तास्तान् पर्यायानिति । द्रव्यमेववान्ताङ्ग बहिरङ्गाः पर्यायाः । ननु द्रव्यस्य कुतः सत्वसिद्धिः १ । प्रत्यभिज्ञाप्रत्यक्षादिति ब्रूमः । तथोहि । यदबाधितबोधगोचरचारि तत्सत् । यथा स्तम्भकुम्भादि अबाधितप्रत्यभिज्ञाप्रत्यक्षगोचरचारि पूर्वोत्तरपर्यायव्यापि द्रव्यम् । भेददर्शनमपि भेदवादिभिरिन्द्रियान्वयव्यतिरेकविधायितया प्रत्यक्षमुपेयतेऽ ताग्भेदाध्यवसायिन्यपि पूर्वदर्शनाहितसंस्कारप्रबोधप्रभवस्मरणसहायेन्द्रियान्वयव्य तिरेकानुविधायिनी प्रत्य. भिज्ञा कथं न प्रत्यक्षम् । न चाक्षं वर्तमानकालभाविनिप्रत्यासीदत्यतस्तदनुसारिणी धीस्तत्रैव प्रवर्तितुमुत्सहते पूर्वन्नेति वाच्यम् । एवं हि विशददर्शनावसेयास्तम्भादयोऽपि न प्रत्यक्षाः स्युः । तथाहि-अर्थाधीनावयवसंबन्धेन्द्रियजनितप्रत्यक्षायसेयमध्यपरावयवादिव्यापि स्तम्मादिद्रव्यं चार्थाधीनाव. यवमात्रपर्यवसितप्रत्यक्ष न स्यात् । परमाणुरूपाययवानां वाs प्रत्यक्षत्वात् । ततः सकलप्रमाणशन्याग्राह्यतापद्येत । अथ विततदेशव्यवस्थिताः परमाणनः प्रतिभासविषयाः । तदसत् । सान्त - - -

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170