Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad
View full book text
________________
१२०
अनुमानपरिच्छेदः ।
सङ्गात् । सहकार्यपेक्षा च समर्थस्य न विद्यते । असामर्थ्येवा पूर्व - मसमर्थस्य सहकारिसंनिधौ सामर्थ्यात्वत्तौ परिणामित्वप्रसङ्गः । सहकारिणा सामर्थ्य मुत्पाद्यमानं ततो भिन्नमभिन्नं वा स्यात् ? । अभेदपक्षे कूटस्य नित्याताहानिः । भिन्नकरणे तस्मादेव कार्योपत्तिः स्यात्, न नित्यात् इत्यादिसौगतैरेवात्र विजूभितं तदिह नोच्यते विस्तभयात् तन्न क्रमेण कर्तृत्वम् । नापि यौगपद्येन । प्रथम एव क्षणे कृतत्वाद्वितीयादिषु न किञ्चित्कर्त्तव्यमस्तीति सत्वसामर्थ्यरहितस्य व्येामोत्पलस्येवासत्त्वं स्यात् । पुनः करणे वा क्रमपक्ष एव स्यात् । तत्रचोको दोषः । न च कृतकरणमस्ति । तत्र गपद्येनापि करोति । न वापरं क्रमाक्रमरूपं प्रकारान्तरमुपेयते । अस्मन्मतानुप्रवेशप्रसङ्गात् । तन्न कूटस्थानित्यं किचित्करोति । नाप्येकान्तक्षणिकम् । तदपि हि क्रमेण वा कुर्याद्योगपद्येन वा ? । न तावक्रमेण । स हि देशक्रमा वा स्यात् पिपीलिकानामिव कालक्रमेा वा यत्र । नडादीनामिव तत्र नैकस्मिन् देशे कार्यं कृत्वा देशान्तरे क्षणिकं वस्तु करोति । तत्रैव तस्य ध्वस्तत्वात् । नाप्येकस्मिन् क्षणे कृत्वा द्वितीयेsपि दधाति । क्षणिकत्वहानिप्रसङ्गात् । अथ नायंक्रमः सौगतैरुपेयते किं तर्हि कार्यन्तरासाहित्यं कैवल्यमङ्करदेयैगपद्यपि कायान्तरसाहित्यम् । तथाहि - लोको वदति क्रमेण यवाङ्कुरा उत्पन्ना यौगपद्येनैवेति ? । ननु कल्पनामात्रमेतत् । वस्तुनः पुनः सौगतानां द्विविधं कारणं • सामग्री लक्षणं सहकारिलक्षणं च । तत्र यदि सामग्रीलक्षणं' कारणमाश्रित्य क्रमयौगपद्यमिष्यते तन्न संभवति । तत्र यौनपद्याभावात् । एकमेव हि कार्य सामग्रीं जनयति नापरम् । तन्न कार्यान्तरसाहित्यलक्षणं यौगपद्यं तत्रास्ति । नापि सहकारि
?

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170