Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad
View full book text
________________
जैनवार्तिकवृत्ती। तदिहापि विरोधेऽपि संवेदनमेव प्रमाणमिति । एवं प्रत्यक्षेणे. भयात्मकं वस्तु अनुभूयमानमपि यो माहान्न प्रतिपद्यते तं प्रत्यनुमानमुपन्यस्यते। सत्वाद्यथानुपपत्तेः सर्वं नित्यानित्यात्मकम् । यथा घटे एकान्तनित्यानित्यार्थक्रियाविरोधात् । सन्ति च सप्तपदार्थाः । न तावद्विशदतरदर्शनावशे यस्य सत्त्वस्य ज्ञानवा. दिमताश्रयणेनासिद्धत्वमुद्भावनीयम्। विज्ञानस्याप्यभावप्रसक्तः। नापि सर्वशून्यवादिमताश्रयणेन । वादे तस्यानधिकारात्। सवाभावे हि कस्मै कि केम प्रतिपादयेदित्यादेरुतत्वात् । नापि प्रतिसाथै कदेशत्वेनासिदुत्वम् । धर्मभेदस्याप्यभ्युपगमात् । नापि विकल्पिविकल्पत्तो धर्मभेदः । तदा हि खरतुरगविषाणयोरपि। गम्यगमकभावः स्यात् । कल्पिताच हेताः कल्पितसाध्य. प्रसक्तः । नाप्येकान्तेन भेदः। संबन्धामिद्धेः । समवायादिसंबन्धस्य निरासात् । म चात्र भेदाभेदमक्षाविदोषः । गुडनागरसंशितवस्त्वभ्युपगमात् । तदुक्तम् ।
गुडश्चेत्कफहेतुः स्यात् नागरं पित्तकारणम् । . तन्मलमन्यदेवेदं गुडनागरसंज्ञितम् ॥ मधुरं नहि सर्व स्यात् कफहेतुर्यथा मधु ।
तीक्ष्णं वा पित्तजनकं यथा माराधिका मता। तदेवं भिवाभिन्ने वस्तुनि नासिद्धो हेतुः । नापि विरुद्धः । सपक्षे सद्भावात् । नापि विरोधाकान्तत्वानित्यानित्यात्मत्वं घटस्यासिद्धमिति वाच्यम् । तथाप्रतिभासनात् । संविनिष्ठा हि विषयव्यवस्थितयः । तथा छायातपयोरपि यद्येकत्राभासनं स्याविरोधेऽपि केन नानुमन्येत तथावस्थानम् । तथाहि-मृद्रपस्य प्रौयसंजितस्य सर्वावस्थानुयापिनो नित्यस्यानित्यत्वेनोत्पादव्ययसंज्ञितेनैकात्मतया प्रतीतेः । अन्यथैकान्तभेदे मृत्सं
Anition

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170