________________
जैनवार्तिकवृत्ती। तदिहापि विरोधेऽपि संवेदनमेव प्रमाणमिति । एवं प्रत्यक्षेणे. भयात्मकं वस्तु अनुभूयमानमपि यो माहान्न प्रतिपद्यते तं प्रत्यनुमानमुपन्यस्यते। सत्वाद्यथानुपपत्तेः सर्वं नित्यानित्यात्मकम् । यथा घटे एकान्तनित्यानित्यार्थक्रियाविरोधात् । सन्ति च सप्तपदार्थाः । न तावद्विशदतरदर्शनावशे यस्य सत्त्वस्य ज्ञानवा. दिमताश्रयणेनासिद्धत्वमुद्भावनीयम्। विज्ञानस्याप्यभावप्रसक्तः। नापि सर्वशून्यवादिमताश्रयणेन । वादे तस्यानधिकारात्। सवाभावे हि कस्मै कि केम प्रतिपादयेदित्यादेरुतत्वात् । नापि प्रतिसाथै कदेशत्वेनासिदुत्वम् । धर्मभेदस्याप्यभ्युपगमात् । नापि विकल्पिविकल्पत्तो धर्मभेदः । तदा हि खरतुरगविषाणयोरपि। गम्यगमकभावः स्यात् । कल्पिताच हेताः कल्पितसाध्य. प्रसक्तः । नाप्येकान्तेन भेदः। संबन्धामिद्धेः । समवायादिसंबन्धस्य निरासात् । म चात्र भेदाभेदमक्षाविदोषः । गुडनागरसंशितवस्त्वभ्युपगमात् । तदुक्तम् ।
गुडश्चेत्कफहेतुः स्यात् नागरं पित्तकारणम् । . तन्मलमन्यदेवेदं गुडनागरसंज्ञितम् ॥ मधुरं नहि सर्व स्यात् कफहेतुर्यथा मधु ।
तीक्ष्णं वा पित्तजनकं यथा माराधिका मता। तदेवं भिवाभिन्ने वस्तुनि नासिद्धो हेतुः । नापि विरुद्धः । सपक्षे सद्भावात् । नापि विरोधाकान्तत्वानित्यानित्यात्मत्वं घटस्यासिद्धमिति वाच्यम् । तथाप्रतिभासनात् । संविनिष्ठा हि विषयव्यवस्थितयः । तथा छायातपयोरपि यद्येकत्राभासनं स्याविरोधेऽपि केन नानुमन्येत तथावस्थानम् । तथाहि-मृद्रपस्य प्रौयसंजितस्य सर्वावस्थानुयापिनो नित्यस्यानित्यत्वेनोत्पादव्ययसंज्ञितेनैकात्मतया प्रतीतेः । अन्यथैकान्तभेदे मृत्सं
Anition