________________
१६
अनुमानपरिच्छेदः ।
स्थानयोर परस्परात्मतया प्रतिभासनं स्यात् । नाप्येकान्तेनैकत्वम् । अनुगतव्यावृत्तेन द्विरूपाया बुद्धेरुत्पादात् । तदुक्तम् । चटमौलि सुवर्णर्थिना सोत्पादस्थितिष्वयम् ।
श्लोक प्रमोदमाध्यस्थं जनेो याति सहेतुकम् ॥
यात्रानुगताकारा बुद्धिः सविकल्पकत्वादप्रमाणमिति वाच्यम् । व्यवसायरूपत्वात्प्रमा णस्येत्युक्तत्वात् । तदेव देशकालस्वभावाभेदेऽपि संख्यासंज्ञालक्षणका यभेदान्तर सिंहाकारमेव
वस्तु । तदुक्तम् ।
नरसिंहं नररूपत्वान्न सिंहो नररूपतः । संज्ञाविज्ञान कार्याणां भेदाज्जात्यन्तरं हितम् ॥ मान्धया भेदरूपत्वान्न भेदान्वयरूपतः । मृद्भेदद्वय संसर्गवृत्तिर्जात्यन्तरं घटः ।
अन्यथैकान्त कूटस्था न कश्चित् क्वचित्प्रवर्तत इत्यप्रवृत्तिनिवृत्तिकं जगत् स्यात् । अन्यथा परिणामित्यमेव स्यात् । एकान्तक्षणिकत्वेऽपि प्रतिसन्धानप्रत्यभिज्ञाद्यभावेन स्वगृहेऽप्यागमनं न स्यात् । तस्मादनेकान्तात्मन्येव वस्तुनि व्यवहारोऽपि घटते । तदेवमुभयात्मकं वस्तु सिद्धम् । ननूक्तं विरोधाक्रान्तस्वात्कथमेतदिति ? | सत्यमुक्तं किंत्वयुक्तम् । तथाहि । विरोधा द्विधा सहानवस्थानलक्षणः, परस्परपरिहारलक्षणश्च व्याधयते तत्र किं ययार्न कदाचिदेकत्रावस्थानं तयोः सहानवस्थानमुत किं यत्कालावस्थानेऽपि पश्चादनवस्थानेनेति ? | आद्ये पक्षेऽहिनकुलादानां न विरोधः स्यात् । अन्यथा त्रैलोक्येऽप्युरगादीनामभावः स्यादिति । येन कस्यचिन्नरवनिता देर्विरोधो न स्यात् । तयेारपि कंचित्कालमेकत्र स्थित्वापगमात् । किंच वडवानल जलधिजलयोर्विद्युदम्बुदांभसोश्चिर तर मे कत्रावस्थाने