________________
अनुमानपरिच्छेदः ।
दबाधकमिति । किंच सत्वादेर्खिङ्गस्य व्याप्तिग्रहणं न प्रत्यक्षेण । परोक्षत्वात् णिकत्वस्य अनुमानेन ग्रहणेऽनस्था, इतरेतराश्रयत्वं च प्रतिपादयुक्तमिति । अथ सत्वमर्थक्रियाकारित्वेन व्याप्तमर्थक्रियाकारित्वं च क्रमयैौगपद्येनेति । तयोश्च व्याप्तिः प्रत्यक्षणैव प्रतीयतइति नावस्थेति । तथाहि । क्रमेणाङ्कुरादिकं कार्यमुत्पाद्यमानमुपलभ्यते तदभावे योगपद्येन । उभयनिषेधे केवल भूतलग्राहि प्रत्यक्ष प्रकारान्तराभावं निश्चापयति तेन क्रमयेागपद्याभ्यामर्थक्रियाकारित्वस्व व्याप्तिं प्रतिपद्यत इति । न ते नित्यात् क्रमयैौगपद्यं निवर्त्तमानमर्थक्रियाकारित्वलक्षणं सत्यमादाय निवर्त्तमानं क्षणिकेष्वेवावतिष्ठत इति व्याप्तिग्रहणं प्रत्यक्ष मूलमिति । भवत्वे कान्तनित्यात् क्रमयेागपद्यनिवृत्तिनिबन्धनार्थक्रियाव्यावृत्तिस्तथा न सा क्षणिकेष्वेवावतिष्ठते । यथैकान्त नित्येष्वर्थक्रिया न संभवति सथैकान्तक्षणिकेष्वपीति । एतच्च पश्चात्प्रतिपादयिष्यते । तच गृहीतव्याप्तिकं क्षणिकानुमानं प्रत्यभिज्ञाबाधकमिति । प्रतिपादयिष्यते च प्रत्यभिज्ञायाः प्रमाण्यमिति । तस्मादनुगतव्यावृत्ताकारा बुद्ध्यात्मकं वस्तु व्यवस्थापयति । एतदेवाह । घटमै । लिसुवर्णेषिति ।
घटमौलि सुवर्णेषु बुद्धिर्भेदावभासिना ।
संविनिष्ठा हि भावानां स्थितिः कात्र विरुद्धता ॥
भेदावभासिनेति । भेदमनुगतध्यावृत्तरूपमवभासितुं शीलं पस्याः सा तया । तथाहि सुवर्णमिति अनुगताकारा बुद्धि:, घटश्च मुकुटश्चेति व्यावृत्ताकारा चानुभूयतइति । न चैतद्वाच्यं विरोधादेकं वस्तु नोभयरूपमिति । यत श्राह । संविन्निष्ठा होति । यस्मादन्यत्रापि नीलपीतव्यवस्था संवेदननिबन्धनेव
११४