________________
१०४
प्रत्यक्षपरिच्छेदः। कञ्चित्साधनमर्थ निरासे ज्ञानशून्यवादिनः । तदेवाह- ज्ञानशू न्यवत इत्यादि। ज्ञानशून्यवतो नास्ति निरासेऽर्थस्य साधनम् । संवित्सिद्धप्रतिक्षेपे कथं स्याज्ञव्यवस्थितिः ॥ ____ अनुभवसिद्धस्य चार्थक्रियाकारिणः सकलजन्तुमाधारणस्यार्थस्य निषेधज्ञानशून्य योरपि कथं स्याद् व्यवस्थितिरिति । तदेवाह । संवित्मिद्धस्येत्यादि ॥ प्रथायमर्थः, किमवयविरूपः, किंवा परमाणुस्वरूप इति ? । तत्रावयविनेा भवद्भिरेव निरस्तत्वात् परमाणू नामप्रतिमासनान्न बाह्योऽयमाकार: किन्तु जानाकारवत्तथा प्रतिभातीति । ननु ज्ञानाकारेऽप्येष प्रसङ्गो दुर्निवारः । तथाहि-तद्देशत्वान्नी लानीलत्वादिके विरोधः चित्रद्वैतेऽपि समानः । न च ज्ञानं परमाणुमात्रं चकास्ति । अथ यथा बाह्यस्यैकावयवावरणेऽपि अवयवान्तरप्रतिभासलक्षणे विरोधः नैवं ज्ञानाकारस्य । माभदयं, नीलानीलादिकः केन | निवार्यते । यथा चायमर्थस्तथा सविकल्पकसिद्धौ प्रतिपादयि. ष्यतीति । अत्र बहु वक्तव्यं तच्च नोच्यते ग्रन्यविस्तारभया. | दिति । तदेवं बाह्यमर्थ व्यवस्थाप्येदानी द्रव्यादीनां लक्षण माह-पर्यवस्यन्तीत्यादि। पर्यवस्यन्ति पर्याया द्रव्यं द्रवति सर्वदा । सद्रशः परिणामे यस्तत्सामान्यं द्विधा स्थितम् ॥
पर्यवस्यन्ति क्षणिकत्वाव्यावर्तन्त इति पर्यायाः। पर्याया इत्युपलक्षणं चैतत्सहभाविनां गुणानां रूपादीनामिति । द्रवन्ति गच्छन्ति तांस्तान्यर्यायान् परिणामनित्यत्वादिति । द्रव्यमिति । परपरिकल्पितं सामान्यं पूर्वमेव निरस्तमिदानी स्वा