SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १०५ जैनवार्तिकवृत्तौ। भिमतं सामान्यं व्यस्थापयन्नाह । सदृशः परिणामहत्यादि । इह भावानां सदशपरिणतः सामान्यं समानारावसामा न्यमिति न्यायात् । अन्यथा स्वरूपसामान्य मन्तरेणान्यसामान्य योगेऽपि समानरूपताकारास्यैव नोपपद्यते । यदि वा समा. नानामपि सामान्ययोगात समानरूपता भवति, किं न महिषाश्वयोः । पराभ्युपगतस्य । सामान्यस्य तत्रापि भावात् । विजातीयत्वाने ति चेत् । इतरेतराश्रयत्वम् । तथा हि-विजातीयत्वे सामान्यायोगः, सामान्यायोगे च विजातीयत्वमिति । अपि च सामान्येनासमानानां यदि समानरूपता जन्यते न स्वकारणादेव सा तेषामल मन्यतः । तत्पश्चादपि कुर्वत्याशिशवो लघवः परम् ॥ तस्माद्वस्तुस्वरूपमेव समानपरिणामं सामान्य मान्यत् । नाप्यवस्तु । तस्य निषेत्स्यमानत्वादिति । तच्चोर्ध्वतारूपं तिर्यग्रपं तदेवाह-द्विविधेति । एवं सामान्य लक्षणममिधायेदानों विशेषस्वरूपमाह-। विपरीत इति ।। विपरीतेो विशेषस्तु तान् युगपदव्यवस्यति । तेन तत्कल्पनाज्ञानं न तु शब्दार्थयोजनोत ॥ साधारणाद्विपरतिः सकलसजातीयविजातीयेभ्यो व्या. वृत्तोऽसाधारणवस्तुस्वभावो विशेष इति । इदानीं विषयद्वारेणैव सविकल्पकसिद्विमाह । तान् युगपदिति । युगपदेककालं द्रव्यादीन् व्यवस्थति निश्चीयते यतः तेन तत्प्रत्यक्षं कल्पना ज्ञानं सविकल्पकमित्यर्थः । नन्वभिलाषसंसर्गायोग्यप्रतिभा. साप्रतितिः कल्पना । तथाहि-कल्पना योजना सा पान व. स्तुनो रूपं निरंशत्वादस्तुनः किं तु शब्दनिर्मिता । अत एक जात्यादियोजनापि शब्दयोजनानिराकरणादेव निराक्रियते । ४१
SR No.022458
Book TitleJain Tark Vartikam
Original Sutra AuthorN/A
AuthorVitthal Shastri
PublisherBhagavati Prasad
Publication Year1917
Total Pages170
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy