Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad

View full book text
Previous | Next

Page 108
________________ १०३ जैनवार्तिकवृत्तौ। स्यात तेन न भिन्नविषयं ज्ञानं किं त्वात्मविषयमेव । म यनिनप्रकाशकाः सतां दधानाः स्तम्भादयो जहा भवितुं युक्ताः । अथ कोऽयं प्रकाशः ? । किं ज्ञानमथ ज्ञानविषयता ? । प्रथमपक्षे स्यादिदम् । द्वितीये तु कथमर्थस्य ज्ञानता? । न हि प्रदीपेन प्रकाश्यमानाः स्तम्मादयः प्रदीपा भवन्ति । अथ तेऽपि प्रकाशस्वभावास्तदानीमेवोत्पद्यन्ते। अन्यथाऽन्धकारऽपि प्रकाश्ये. रन् । अस्ति तावदन्धकारपि स्तम्सादिः । प्रकाशपर्यायता तु प्रदापादुस्पद्यते तथार्थस्य प्रकाशपर्यायता ज्ञानाद्भवत कथम. र्थाभावः । श्रथ पूर्वमास्तित्वे किं प्रमाणम् ? । निषेधे किं प्रमाणम् । त[स्तु संशयः। नैतदस्ति । यतः किमेकमेव ज्ञान क्षणस्थायि तेन पूर्वापरयो: कालयोरर्थसत्तां न प्रतिपद्यते किं वा अनेकानि परस्परकर्मतां न प्रतिपद्यन्ते । ? सर्वेषां वर्तमा. ननिष्टत्वात् । तेन विदन्ति प्रथमपेक्षणादूई न किञ्चिदनुभूयते । तथासत् । मरणपर्यायत्तमनुभवस्य बाधितस्योत्पत्तेः । द्वितीयेऽपि ज्ञानानां परस्पराननुगमेऽप्यात्मना देशकालाकारविपययस्यार्थस्यानुभूयमानत्वात् । एतेन सहापलम्भनियमो निरस्तः । सादर इव महशब्दस्यैकत्ववाधित्वाद्विमानार्थयोश्च भेदस्य प्रतिपादितत्वादिति । अथ सर्व प्रत्यया निरालम्बनाः । प्रत्ययत्वात् । स्वप्न प्रत्य यवत् । इत्यर्थासावस्तर्हि आत्मवेदनमवि प्रत्ययः सोऽपि निरालम्बनः स्यात । इष्यत एवेति चेत् । तदेवाह- सून्यं वा यदि वा ततः । प्रतिभासमानत्वादिति । तदसत् । यतः ज्ञानशून्यवादिनोग्नुमानं किं गृहीतव्याप्तिकमुदेति, किं वागृहीतव्याप्तिकम् ? । भगृहितव्याप्तिकं कथमनुमानम् ? । व्याप्तिग्रहणं च न भेदैनैव । इतरेतराश्रयत्वप्रसङ्गात् । जानान्तरेण चेत् । कथमद्वैतं शून्यं वा । तन्न -

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170