Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad

View full book text
Previous | Next

Page 74
________________ जैनवार्तिकवृत्तौ ॥ त्यनवस्था । किं चासावेकोऽनेको वा? । एकश्चेत् मर्वपुरुषाणां नियोगप्रतीतिः स्यात्। अथ विपर्ययान्न परस्येति चेत् । नावापि प. क्षपातादिति समानम् । अनेकश्चेत्। प्रतिपुरुषमसाधारणतया न सङ्केतक्रिया स्यात्। किं च शब्दप्रमाणैकसमधिगम्यतया सत्वे माकाशकुसुमस्यापि सत्वमापयेत। विशेषो वा वक्तव्यः । न च शब्दप्रवृत्तिमात्रेण सत्वं युज्यते । अन्यथादार: धरणगरीत्यादा वपि समासज्येत । सम्न कश्चित्स्वतन्त्रो नियोगो वाच्यार्थः प्रतीयते । परतन्त्रोऽपि किं तत्कार्यतया धर्मतया वा? । न तावत् प्रथमः पक्षः । यतः किमसी यागकार्यः, नियोगकार्यः, शब्दकार्यो वा ? । न तावत यागकार्यः। तस्य तदानीमनिष्पन्नत्वेनामावात्। नापि पुरुषकार्यः । पुरुषस्य पूर्वमपि सद्भावेन तद्भाजप्रसङ्गात् । नापि शब्दकार्यः। तदा हि न शब्दस्य वाच्यः स्यात् । कार्यत्वात् । न च वैदिकस्य शब्दस्य नित्यत्वेन क्रमयोगपद्याभ्यां जनकत्वं युज्यते । तद्धर्मतायामपि किमसी यागधर्मः, पुरुषधर्मः, शब्दधी वा? । न तावद्यागधर्मः । तस्याविद्यमानत्वेन तद्धर्मस्याप्यविद्यमानविषयवाच्यं निरालम्बनमपोहमात्रविषयमेव स्यात् । नापि पुरुषधर्मः। तथाहि-पुरुषाद् व्यतिरिक्तः स्यादव्यतिरिक्तो वा ? व्यतिरिक्त पुरुषस्य सर्वथानिष्पानियोगलपता स्थाता नियोगेम ह्येनुष्टेयार्थाभिधीयते निष्पन्नस्य चानुष्ठानेनानुष्ठानविरतिर्भवेत्। निष्पन्नस्यापि किञ्चिदनिष्पन्नमस्ति । तन्न। निष्पन्नानिष्पमयोर्विरोधेन तादात्म्यासावप्रसङ्गात् । व्यतिरिक्तो वा । ननु यावदसैौ तस्य धर्मस्तावदन्यस्य किं न भवति । तस्यैवाधारशक्तिर्नान्यस्पेतिचेत् । सापि किं नान्य त्राभिधीयते । तां प्रति तस्यैव वाधारशक्तिर्नान्यत्येत्यभ्युपगमेऽनवस्था । न च हेतुफलाभावादन्याव्यतिरेकसंबन्धोस्ति ।

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170