________________
जैनवार्तिकवृत्तौ ॥ त्यनवस्था । किं चासावेकोऽनेको वा? । एकश्चेत् मर्वपुरुषाणां नियोगप्रतीतिः स्यात्। अथ विपर्ययान्न परस्येति चेत् । नावापि प. क्षपातादिति समानम् । अनेकश्चेत्। प्रतिपुरुषमसाधारणतया न सङ्केतक्रिया स्यात्। किं च शब्दप्रमाणैकसमधिगम्यतया सत्वे माकाशकुसुमस्यापि सत्वमापयेत। विशेषो वा वक्तव्यः । न च शब्दप्रवृत्तिमात्रेण सत्वं युज्यते । अन्यथादार: धरणगरीत्यादा वपि समासज्येत । सम्न कश्चित्स्वतन्त्रो नियोगो वाच्यार्थः प्रतीयते । परतन्त्रोऽपि किं तत्कार्यतया धर्मतया वा? । न तावत् प्रथमः पक्षः । यतः किमसी यागकार्यः, नियोगकार्यः, शब्दकार्यो वा ? । न तावत यागकार्यः। तस्य तदानीमनिष्पन्नत्वेनामावात्। नापि पुरुषकार्यः । पुरुषस्य पूर्वमपि सद्भावेन तद्भाजप्रसङ्गात् । नापि शब्दकार्यः। तदा हि न शब्दस्य वाच्यः स्यात् । कार्यत्वात् । न च वैदिकस्य शब्दस्य नित्यत्वेन क्रमयोगपद्याभ्यां जनकत्वं युज्यते । तद्धर्मतायामपि किमसी यागधर्मः, पुरुषधर्मः, शब्दधी वा? । न तावद्यागधर्मः । तस्याविद्यमानत्वेन तद्धर्मस्याप्यविद्यमानविषयवाच्यं निरालम्बनमपोहमात्रविषयमेव स्यात् । नापि पुरुषधर्मः। तथाहि-पुरुषाद् व्यतिरिक्तः स्यादव्यतिरिक्तो वा ? व्यतिरिक्त पुरुषस्य सर्वथानिष्पानियोगलपता स्थाता नियोगेम ह्येनुष्टेयार्थाभिधीयते निष्पन्नस्य चानुष्ठानेनानुष्ठानविरतिर्भवेत्। निष्पन्नस्यापि किञ्चिदनिष्पन्नमस्ति । तन्न। निष्पन्नानिष्पमयोर्विरोधेन तादात्म्यासावप्रसङ्गात् । व्यतिरिक्तो वा । ननु यावदसैौ तस्य धर्मस्तावदन्यस्य किं न भवति । तस्यैवाधारशक्तिर्नान्यस्पेतिचेत् । सापि किं नान्य त्राभिधीयते । तां प्रति तस्यैव वाधारशक्तिर्नान्यत्येत्यभ्युपगमेऽनवस्था । न च हेतुफलाभावादन्याव्यतिरेकसंबन्धोस्ति ।