________________
प्रत्यक्षपरिच्छेदः। तच्छब्दवाध्यतामात्रं प्रमाणं यदि कल्पते । न मानं विधिवाच्यं स्यादीश्वरस्य च सिद्धता ॥ वेदाहमग्रे पुरुषं महान्तमित्यादितवेदवचे प्रमाणम् । तच्छब्दवाच्यत्वसमानभावों झूभूधरादेरपितसिद्धिः॥
संस्थानशब्दवाच्यत्वं यतस्तस्यापि विद्यते । घटवबुद्धिमत्कर्ता तेन तत्रापि सिद्ध्यतु ॥ विशेषः परिहाराय यदि कल्पेत कश्चन । नियोगादि तदा तस्य दोषा: शास्त्रकृतादिताः ॥
तथापि यत्प्रमाणगोचरचारि न भवति तन्न सद्व्यवहतिपथमवतरति । यथा व्योमेत्यलम् । न भवति च नियोगः प्रमाणगोचरचारीति व्यापकानुपलब्धिः । तथाहि किमसौ स्वतन्त्र वष्यते, परतन्त्रो वा? । न तावत् पटादिपदार्थवत् स्वतन्त्रोऽध्यक्षतः प्रतीयते । नाप्यनुमानात । तत्सद्भावे लिङ्गाभावात् । न च पुरुषप्रवृत्तिलिङ्गम् । तस्याः फलाभिलाषकार्यत्वात् । अन्यथा स्वर्गकाम इति फलोपदर्शनं न विदध्यात् । अथ प्रचण्डप्रभुनियोगात् फलाभिलाषमन्तरेणापि प्रवर्त मानो दृश्यते । तन्न। तत्रापापपरिहारस्यैव फलत्वात् । नापिशब्दैकप्रमाणसमधिगम्यता तस्य वाच्या। यतःशब्देन प्रतीयमानोऽसौ कि संबन्धेन प्रतीयते सिंबद्धन का? । असंबद्धन प्रतीतावस्यतिप्रसङ्गः स्यात् । सबन्धेनापि किं स्वाभाविकसंबन्धात, साङ्केतिकाद्वा ?। प्रथमपक्षे बालगोपालादेरपि प्रतीतिप्रसङ्गः। ह्याकारामनाकाशं कस्यचित्सङ्केतोऽपि नियोगे प्रतीतेप्रतीते वा? । प्रतीतिश्च किं तेनैव शब्देन शब्दान्तरेण वा ? । तेनैव चेत् । किं सङ्केतेन । इतरेतराश्रयत्वं च स्यात् । शब्दान्तरेण चेत् । तद. पिशब्दान्तरं गृहीतसङ्केतं प्रवत्र्तत पुनरपि सङ्केतग्रहः शब्दान्तरे