________________
जैनवार्तिकवृत्तौ ।
·
११
अथ स्वयं तदपि नास्ति । यतः
यद्यर्थवेदनं ज्ञानमात्मनेाऽपि प्रकल्प्यते । सुशिक्षितो बदुः स्कन्धं स्वमारोहतु दासवत् ॥ तथाहि वेद्यतेऽनेनेति वेदनम्, वेद्यते तदिति वैद्यमिति विरुद्धयोः करणकर्मणोः कथमेकत्र सद्भाव इति । कथमात्मानमात्मनाऽसौ वेत्तीति व्यपदेशः । तस्मात्कल्पिताः क्रियाकाकव्यपदेशाः प्रवर्त्तमाना न वस्तुं विरुन्धन्ति । अपि च प्रमासिद्धे वस्तुनि को विरोधः । एतदेवाह - प्रदीपवदिति । दीपवनोपपद्येत बाध्यवस्तुप्रकाशकम् । अनात्मवेदने ज्ञाने जगदान्ध्यं प्रसज्यते ॥ ४ ॥
सजातीयानपेक्षत्वेन दृष्टान्तः । तथाहि - ज्ञानमात्मप्रक"शकत्वाऽन्यथानुपपत्तेः प्रदीपवत् । एनमेव हेतुं विपर्यये बाधकप्रमाणेन समर्थयितुमाह - नोपपद्येतेत्यादि । श्रात्मानं वेदयतीत्यात्मवेदनम्, न तथा । तस्मिन् सति न केनचित् किञ्चिद् विज्ञायेतेत्यन्धमूकं जगत् स्यात् । तथाहि यत् सदुपलम्भक प्रमाण गेोचरतावतारि न भवति तत् सकलमेव न सद्व्यवहृतिपथमवतरति । यथा शशविषाणम् । नावतरति च सदुपलम्भक प्रमाणगाचरतामात्मव्यापारादिलक्षणं विज्ञानमिति । तथाहि तदूग्राहकं प्रत्यक्षे वा स्यात् परोक्षं वा ? | प्रत्यक्षमपि किमिन्द्रियार्थ संप्रयेोगजम्, अहोस्विदात्ममनः सन्निकर्षसमुत्थम्, उतस्वित्स्वसंवेदनं यदथोऽयमारम्भ इति । तत्र ज्ञानेनेन्द्रियस्य मन्निकर्षाभावादनभ्युपगमाच्च न प्रथमः पक्षः । नापि द्वितीयः । मनःसद्भावे प्रमाणाभावात् । न चाप्रमाणं वस्तु विपश्चितः समाश्रयन्ते । न च युगपज्ज्ञानानुत्पत्तिस्तत्प्रमाणम् । तस्या अन्यथाऽप्युपपत्तेः । तथाहि यस्मिन्नात्माऽऽभिमुख्यं प्रतिपद्यते तस्मिन् विज्ञानमु