________________
१२
प्रत्यक्षपरिच्छेदः ।
देति, अन्यत्र नेति किं मनःपरिकल्पनया । अथेदमाभिमुख्यं किमात्मनेा व्यतिरिक्तम्, आहे स्विदव्यतिरिक्तमिति ? । तत्र यदि व्यतिरिक्तं तदा संज्ञामात्रं भिद्यते नार्थ इति । अथाव्यतिरिक्तं तदाऽऽत्मनः स्वरूपामच्युतेः स सर्वदा तदस्तीति सर्वदा सर्वविषयं विज्ञानं स्यात । नन्वात्मनः मनसा संयोगकर्तृत्वं किं भिन्नमभिन्नमिति ? | यदि भिन्नं नात्मन: कर्तृत्वम् । अथाभिन्नं तदा तदपि तत्स्वरूपवत् सर्वदाऽस्तीति सर्वदा संयोगः स्यात् । ततश्च सर्वदा ज्ञानातपत्तिरिति स्यादिति । अथ शक्तिः कर्तृत्वं सा च सहकारिकारणवशात् कदाचिद्भवन्ती दोषमावहति । यद्येवं तर्हि कर्म्मणः सामर्थ्यादाभिमुख्यमात्मनः समुत्पद्यमानं सम्भवन्तों ज्ञानात्पत्तिं विधास्यतीति किं मनःपरिकल्पनया ? | विधास्यते चायमर्थो जीवांशात् कर्मनिर्मुक्तादित्यत्रान्तरे । तज्ञात्मना जनितमपि प्रत्यक्षं ग्राहकमिति । श्रपि चं तत्तस्य कारणं कार्यमनुभयं वा सद् ग्राहकं स्यात् । न तावत् कारणम् । तदानीं ग्राह्यस्याभावात् । नाप्यनुभयम् । असम्बन्धात् । श्रथैक सामग्रीतस्तदुभयं ग्राह्यग्राहकरूपं समुत्पद्यते इति । तन्न । युगपज्ज्ञानात्पश्यन म्युपगमात् । किंच ज्ञानाविशेषेऽप्येकं ग्राह्यमपरं ग्राहकमिति किंकृतेाऽयं विशेष: ? । श्रथ कार्यं तदा तदपि ज्ञानमज्ञातं वा ? | अज्ञातस्य ज्ञापकत्वायोगात् । तदुक्तम् - अप्रत्यक्षोपलम्भस्य नादृष्टिः प्रसिद्ध्यति । अथ ज्ञातम्। तदपि यदापि प्रज्ञान्तरेण तदा किं ग्राह्यरेण किं वा ज्ञानान्तरेण ? | यदि ग्राह्येण तदा तस्य ग्राहकत्वात् कार्यत्वं ततश्चाग्रेपातः द्वितीयस्य तस्याप्येवमेषमिति काचपच्यं ज्ञानयोः स्यात् । तत्र ग्राह्मण ज्ञानान्तरेणापि ग्रहणे तस्याप्यन्येनेत्यनवस्था । तन्न प्रत्यक्षं तद्ग्राहकम् । नापि
"
-