________________
जैनवार्तिकवृत्तौ। परीक्षम । यतस्तदपि किमर्थापत्तिरुतानुमानमिति ? । तत्र न तावत्प्रथमपक्षः । प्रपत्रोरप्रमाणत्वात् । तथाहि । अर्थप्राकट्यादसावुत्पद्यते इत्यभ्युपगमः । तच्च तत्र कि नियतमनियतं वा।। यद्यनियतं कथं नियमेन गमयेत्। अथ नियतम् तदा नियमग्रहः किं तस्मिन्नेव धर्मिणि किं वा धर्मान्तर इति ? । यदि तस्मिन्नेव तदा येनैव प्रमाणेन नियमग्रहस्तेनैव साध्यस्यैव साधितत्वात् किमर्था पत्त्या । अथ धम्र्यन्तरे तदाऽन्यत्र गृहीतप्रतिबन्धमन्यत्र गमयदनुमानतां नातिकामति । अपि चापत्तिरपि किमर्थापत्या ज्ञायते किंवा स्वसंवेदनेनेति ?। यदि स्वसेवेदनेन तदा प्रथमे कः प्रद्वेषः । अथार्थापया तदा किं तेनैव प्राकट्ये - नोत्थाप्यते किं वान्ये न ?। यदि तेतैव तदा किं युगपत् किंवा क्रमेण? । प्रथम पक्षेऽभ्युपगमाहानिः। अथ क्रमेणैतदपि नास्ति। अननुभवात । अथान्येन तदा तदर्थापत्तावपि ज्ञानप्रश्नेऽपरिमितार्यापत्तिमाला प्रसज्येत । तन्नार्थापत्यापि ज्ञायते इति । निषेत्स्यते चार्था पत्तिस्तत्प्रस्ताव इति । अनुमानमपि न तद्व्यवस्थापकम् । यतस्तदपि गृहीतसंबन्धमेव प्रवर्तते। संबन्धग्रहस्तु 'किमस्वयमुखेन किंवा व्यतिरेकमुखेन? । न तावदन्वयमुखेन । यतस्तद्भाव एव भाव पति स प्रतीयते । तद्भावनावित्वं च किं प्रत्यक्षेण प्रतीयते किं वाऽनुमानेन । न तावदत्यन्त परोक्षे विज्ञाने प्रत्यक्षेण । नाप्यनुमानेन । अनवस्छाप्रङ्गात्। व्यतिरेकमुखेनापि नास्ति । यतो विपक्षे हेतोरभाव: किमभावप्रमाणेन प्रतीयते आहेास्विदनु पलम्मेन ? । अभावमाणभावान्न प्रथमः पक्षः । अनुपलम्भनेऽपि किं दृश्यानुपलम्मः, किं वाग्दृश्यानुपलम्भः ।। अन्त्यस्य सत्यपि वस्तुनि भावान व्यतिरेकसाधकत्वम् । दृश्यानुपलम्भमपि स्वभावकारणव्यापकाद्यनुपलम्सभे
-