________________
१४
प्रत्यक्ष परिच्छेदः ।
1
देन व्यावर्णयन्ति । तत्र दृश्यानुपलम्भा नादृश्ये ज्ञाने सम्भ afa | नापि कार्यकारणभावः । स हि प्रत्यक्षानुपलम्भसाधकः कथं परोक्षे वस्तुनि स्यात् ? । व्याप्यव्यापकभावोऽपि प्रत्यचानुमानाभ्यां तस्य न प्रतीयते इत्युक्तम् । तत्कथं ततस्तदत्तांव इति 1 तन व्यतिरेकद्वारेणापि संबन्धनिश्चयः । किं च तल्लिङ्गम् - अर्थश्चक्षुरादयो वा ? | अथाऽपि किं सामान्यरूपः विशेषरूपो वा ? | सामान्यस्य ज्ञापकत्वेऽतिप्रसङ्गः । विशेषो ऽपि यदि प्राकट्य नाभिमुख्यं तदप्यर्थाद्भिन्नमभिन्नं वा । यदि भिन्नं स्वप्रकाशं तदा सिद्धं साध्यं किमन्येन । अथाभिन्नं तदा स्वप्रकाशोऽर्थः प्रसज्येत। एवं चक्षुरादिष्वपि वाच्यम् । किं चेदमर्थशून्यं विकल्प विज्ञानं केन ज्ञायते । न च तस्याननुभवः । नापि तद्वाह्यम् । अध्यात्मं परिस्पन्दात् । योऽपि कारक संबन्धान्यथाऽनुपत्त्या व्यापार: परिकल्प्यते सोऽपि न युक्तो, यतः, यदि तेषां मीलनं क्रियते तदा तेषां सम्बन्धः स्यात् । पूर्वमेव सिद्धत्वात् संबन्धानां यदि स स्यात् तदा किं तेन? | स्वयमेव संबन्धात् । अपि च स किं कारकजन्यो वाऽजन्यो वा? | अजन्यो भावरूपोऽभावरूपो वा ? | भावरूपत्वे न फलजनकत्वं स्यात् । भावोऽपि किं नित्योऽनित्यो वा ? | नित्यत्वे न कदाचिदर्थाधिगतिविरतिः स्यात् । अजन्यश्चानित्यश्चेति व्याहृतम् । जन्योऽपि किमेकक्षणस्थायी किं वा कालान्तरस्थायी? | प्रथमपक्षे क्षणादुई प्रतीतिविरतिः स्यात् । प्रतिक्षणमपरापरोत्पत्ती न कदाचिद्विरमेत् । अथ कालान्तरस्छायी तदा 'क्षणिका हि सा' इत्यभ्युपेतहानिः । श्रपि चासौ क्रियारूपोऽक्रियारूपी वा ? | सोऽपि किं परिस्पन्दरूपोऽपरिस्पन्दरूपो वा ? | परिस्पन्दात्मिका नास्पन्द्स्यात्मनः स्यात् । यदर्थः प्रयास: स एवं प्रत्युक्तः स्यात् ।