________________
प्रत्यक्षपरिच्छेदः। नास्तिकमतनिराकृतावभिधास्यते । यथा च प्रत्युतानुत्पन्न स्थिरैकरूपतया नित्यः समवायोऽन्यो वा म सम्भवति तथा यथाऽवसरं प्रतिपादयिष्यते । तन्न कश्चित्समवायः । तदभावानात्मनो विशेषः । तस्मात्प्रमाणजननात सोऽपि प्रमाणं स्यात् । न वान्यदपीति । तम्न सन्निकर्षः । श्रादिग्रहणात्सामउयैकदेशश्चक्षुरादि न प्रमाणं किंतु ज्ञानमिति ।
श्रय किमिदं ज्ञानस्य प्रामाण्यम्-किमर्थग्रहणम्, उतागृहीतार्थप्रापणम्, पाहोस्विद् गृहीतार्थप्रापणमिति ? । तत्रार्थ. ग्रहणमगृहीतार्थप्रापणं च मिथ्याज्ञानेऽप्यस्तीति तस्यापि प्रामाण्यं स्यात् । गृहीतार्थप्रापणं तु क्षणिकपर्यायवादिनी न सं. भवति । तथाहि या पर्यायो गृहीतः नासौ प्राप्यते, यस्तु प्राप्यते न स गृहीत इति । अथ वस्तुमात्रं गृहीतं प्राप्यते । तदपि सर्वमेकं कथंचिदितिवादिनी मिथ्याज्ञानेऽप्यस्तीति तस्यापि प्रा. माण्यं स्यादित्याशङ्काह-प्रवभासो व्यवसायो न तु ग्रहणमात्र. कमिति । तेन यद्यपि मरुमरीचिकासु उदकचुम्बिज्ञानमिदमि. त्यंशेन मरीचिकास्वरूपमुल्लिखदुत्पद्यते तथापि विपर्ययाक्रान्तत्वान्न प्रमाणमिति।
अथ कोऽयं व्यवसायः । किमर्थग्रहणमुताग्रहणमिति? यदि ग्रहणम्, तदा तदेव दूषणम् । अग्रहणे कथं प्रामाण्यमिति । मत्रोच्यते । सदसद्व्यवहारजननसामर्थ्य व्यवसायः । तथा. हि-सदिति ज्ञानाभिधानप्रवृत्तिलक्षणः, सद्व्यवहारः, नास्तीत्यादिलक्षणश्चासद्व्यवहारः, तयोर्जननसामर्थ्य व्यवसायं ब्रवते । तेन मिथ्याज्ञाने तन्नास्तीति न तस्य प्रामाण्यमिति ।
भवतु ज्ञानं प्रमाणम् । तत्पुनः केन वेद्यते किं स्वयमेव किंवा जानान्तरेणेति ? । यदि ज्ञानान्तरेण तदाऽभ्युपेतहानिः ।