________________
जैनवार्तिकवृत्तौ। सम्बन्धनिबन्धनः । अबाधितेहेतिप्रत्ययत्वात् । यो योग्बाधितेहेतिप्रत्ययः, स स सम्बन्धनिबन्धनः । यथेह कुण्डे दधीति प्रत्ययः, यथा चेह तन्तुषु पट इतिप्रत्ययः, तस्मात स सम्बन्धनिबन्धन इति । इह ग्रामे वक्षा इति भ्रान्तप्रत्ययनिवृत्त्यर्थमबाधितग्रहणम् । तथा सामान्येन सम्बन्धनिबन्धनत्वे साध्ये नान्यदोषः। सामर्थ्याच विशेषसिद्धिरिति । उक्तमत्र एवंविधानां कुकल्पनाज्ञानानां वस्तुव्यवस्थापकत्वाभावादिति । न चासम्बद्धलिङ्गादुदयतामनुमानानां प्रामाण्यमुपपत्तिमत् । अन्यथा 'स श्यामः, त्वत्पुत्रत्वात, परिदृश्यमानत्वत्पुत्रवद्' इत्यादीनामपि प्रामाण्यं स्यात् । बाधितस्वान्नेति चेत् । अत्र किन्न ? । बाधा कासाविति चेत् । इयमेव तावद् यद्विनियमवतो लिङ्गादुत्पत्तिरिति ।
तथाऽयुत्तसिद्धानामाधारायभूतानां स व्यावर्यते इति । तत्रायुतसिद्धिः किं देशैकत्वेन, किमेककालत्वेन, अथ स्वरूपैकस्वेनेति ? । तत्र न तावद्देशैकत्वेन । नहि य एव तन्तूनां देशः स एव पट स्यापि । तथाहि-तन्तवः स्वारम्भके वंशुषु स्थिताः पटस्तु तेष्विति कथं देशैकत्वम् ।। प्राकाशैकत्वे सर्वेषामेकदेशत्वं स्यात् । न च तदेकदेशदेशत्वेनैकदेशत्वम् निर्देशत्वान्न नसः। कल्पितास्तस्य ते इति चेत् । तत् किं कल्पनातो वस्तुव्यवस्था। तन्न प्रथमपक्षः । नापि कालैकत्वेन । नहि य एव तन्तुनां कालः स एव पटस्यापि । कार्यकारणभावाभावप्रसङ्गात् । कारणेन हि समानकालत्वमन्यतः सिद्धस्य स्यात् । ततश्च किं सिद्धोपस्थापिना कारणेन ? । तन्न कालैकत्वेनाप्ययुत सिद्धिः। स्वरूपैकत्वे किं कुत्र समवेतु ? । तन्नायुतसिद्धिः । आधाराधेयमावोग्या. त्मज्ञानयोनीपपद्यते । यथा चाधाराधेयभावो नास्ति तथा