Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad
View full book text
________________
प्रत्यक्षपरिच्छेदः। नास्तिकमतनिराकृतावभिधास्यते । यथा च प्रत्युतानुत्पन्न स्थिरैकरूपतया नित्यः समवायोऽन्यो वा म सम्भवति तथा यथाऽवसरं प्रतिपादयिष्यते । तन्न कश्चित्समवायः । तदभावानात्मनो विशेषः । तस्मात्प्रमाणजननात सोऽपि प्रमाणं स्यात् । न वान्यदपीति । तम्न सन्निकर्षः । श्रादिग्रहणात्सामउयैकदेशश्चक्षुरादि न प्रमाणं किंतु ज्ञानमिति ।
श्रय किमिदं ज्ञानस्य प्रामाण्यम्-किमर्थग्रहणम्, उतागृहीतार्थप्रापणम्, पाहोस्विद् गृहीतार्थप्रापणमिति ? । तत्रार्थ. ग्रहणमगृहीतार्थप्रापणं च मिथ्याज्ञानेऽप्यस्तीति तस्यापि प्रामाण्यं स्यात् । गृहीतार्थप्रापणं तु क्षणिकपर्यायवादिनी न सं. भवति । तथाहि या पर्यायो गृहीतः नासौ प्राप्यते, यस्तु प्राप्यते न स गृहीत इति । अथ वस्तुमात्रं गृहीतं प्राप्यते । तदपि सर्वमेकं कथंचिदितिवादिनी मिथ्याज्ञानेऽप्यस्तीति तस्यापि प्रा. माण्यं स्यादित्याशङ्काह-प्रवभासो व्यवसायो न तु ग्रहणमात्र. कमिति । तेन यद्यपि मरुमरीचिकासु उदकचुम्बिज्ञानमिदमि. त्यंशेन मरीचिकास्वरूपमुल्लिखदुत्पद्यते तथापि विपर्ययाक्रान्तत्वान्न प्रमाणमिति।
अथ कोऽयं व्यवसायः । किमर्थग्रहणमुताग्रहणमिति? यदि ग्रहणम्, तदा तदेव दूषणम् । अग्रहणे कथं प्रामाण्यमिति । मत्रोच्यते । सदसद्व्यवहारजननसामर्थ्य व्यवसायः । तथा. हि-सदिति ज्ञानाभिधानप्रवृत्तिलक्षणः, सद्व्यवहारः, नास्तीत्यादिलक्षणश्चासद्व्यवहारः, तयोर्जननसामर्थ्य व्यवसायं ब्रवते । तेन मिथ्याज्ञाने तन्नास्तीति न तस्य प्रामाण्यमिति ।
भवतु ज्ञानं प्रमाणम् । तत्पुनः केन वेद्यते किं स्वयमेव किंवा जानान्तरेणेति ? । यदि ज्ञानान्तरेण तदाऽभ्युपेतहानिः ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 170