Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad
View full book text
________________
१८
प्रत्यक्षपरिच्छेदः ।
दर्शितदर्शनेन व्यभिचारि । तैमिरिकस्य पुनः पुनस्तज्ज्ञानमुत्पद्यते एव । किं च एकविषयत्वे यथा प्राक्तनविज्ञानमप्रमाणं तथा तदुत्तरकालभाव्यपि तस्मिन्नेव विषये प्रवर्त्तमानमप्रमाणं स्यात् । प्राक्तनस्य प्रामाण्ये तदभिन्नविषयत्वादधिकं किञ्चिदपरिच्छिन्द्रगृहीतग्राहित्वेनाप्रमाणं स्याद् । न वा प्रमाणेन प्रामाण्ये निश्चयो युक्तः । भिन्नकालस्य भिन्नविषयस्य रूपादिज्ञानस्य संवादकत्वे मरीचिकानामस्यापि तदुत्तरकालेनापि मरीचिकारूपद्मादर्शनं संवादकं स्यात् । भिन्नजातीयं त्वेकसंतानवर्त्ति समा नशालं, भिन्नकालं वा यदि संवादकं तदा मिथ्यादर्शनस्यापि विभि
वस्तुस्पर्शादिज्ञानं संवादि स्यात् । एकविषयत्वे सतीति चेत् । कथं रूपस्पर्शादिज्ञानानामेकविषयत्वम् ? । न चैकं द्रव्यमभ्युपगकयत इति । भिन्नसन्तानं तु समानजातीयं भिन्नविषयमेककालं, भिन्नकालं वा यदि संवादकं स्यात् । तदा मिथ्याज्ञानस्यापि तथा भवेत् । एकविषयत्वं तु तत्स्वरूपापरिज्ञाने तत्क मताप्रतिपत्ती तयोर्मोपपद्यते । अथ तुल्याभिधानप्रवृत्तिदर्शनात् तयोरेकविषयत्वं प्रतीयते । ननु तैमिरिकद्वय द्विचन्द्रदर्शनेऽप्येतदस्तीति तयेोरपि परस्परस्य संवादकत्वेन प्रानाय्यं स्यात् । श्रथ तत्र बाधको पोको त देवमित्युच्यते । तर्हि तदेव प्रामाण्यनिबन्धनं न संवादकज्ञानमिति । अथ कारणगुणज्ञानम्, तत्किं प्रत्यक्षमुतानुमानमिति ? । न तावत् प्रत्यक्षम् । इन्द्रियाणां परोक्षत्वात् । न हि धर्मिणः परोक्षत्वे तद्धर्माणां प्रत्यक्षत्वं दृष्टम् । कथं बुद्ध्यादीनामिति चेत् । न तेषामपि परोक्षत्वात् । येषां तु तत्प्रत्यक्षत्वम्, तेषामात्मनाऽप्यन्येषां बुद्ध्यतिरेकिणे । ऽभाव एव । अपरेषां कथं चिद्भेदात्तद्ग्र णे एव तेषां ग्रहणमिति न व्यभिचारः । अथानुमानम, तदपि प्रतिबन्धबखादुदयमासादयति ।
·
·

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170