________________
१८
प्रत्यक्षपरिच्छेदः ।
दर्शितदर्शनेन व्यभिचारि । तैमिरिकस्य पुनः पुनस्तज्ज्ञानमुत्पद्यते एव । किं च एकविषयत्वे यथा प्राक्तनविज्ञानमप्रमाणं तथा तदुत्तरकालभाव्यपि तस्मिन्नेव विषये प्रवर्त्तमानमप्रमाणं स्यात् । प्राक्तनस्य प्रामाण्ये तदभिन्नविषयत्वादधिकं किञ्चिदपरिच्छिन्द्रगृहीतग्राहित्वेनाप्रमाणं स्याद् । न वा प्रमाणेन प्रामाण्ये निश्चयो युक्तः । भिन्नकालस्य भिन्नविषयस्य रूपादिज्ञानस्य संवादकत्वे मरीचिकानामस्यापि तदुत्तरकालेनापि मरीचिकारूपद्मादर्शनं संवादकं स्यात् । भिन्नजातीयं त्वेकसंतानवर्त्ति समा नशालं, भिन्नकालं वा यदि संवादकं तदा मिथ्यादर्शनस्यापि विभि
वस्तुस्पर्शादिज्ञानं संवादि स्यात् । एकविषयत्वे सतीति चेत् । कथं रूपस्पर्शादिज्ञानानामेकविषयत्वम् ? । न चैकं द्रव्यमभ्युपगकयत इति । भिन्नसन्तानं तु समानजातीयं भिन्नविषयमेककालं, भिन्नकालं वा यदि संवादकं स्यात् । तदा मिथ्याज्ञानस्यापि तथा भवेत् । एकविषयत्वं तु तत्स्वरूपापरिज्ञाने तत्क मताप्रतिपत्ती तयोर्मोपपद्यते । अथ तुल्याभिधानप्रवृत्तिदर्शनात् तयोरेकविषयत्वं प्रतीयते । ननु तैमिरिकद्वय द्विचन्द्रदर्शनेऽप्येतदस्तीति तयेोरपि परस्परस्य संवादकत्वेन प्रानाय्यं स्यात् । श्रथ तत्र बाधको पोको त देवमित्युच्यते । तर्हि तदेव प्रामाण्यनिबन्धनं न संवादकज्ञानमिति । अथ कारणगुणज्ञानम्, तत्किं प्रत्यक्षमुतानुमानमिति ? । न तावत् प्रत्यक्षम् । इन्द्रियाणां परोक्षत्वात् । न हि धर्मिणः परोक्षत्वे तद्धर्माणां प्रत्यक्षत्वं दृष्टम् । कथं बुद्ध्यादीनामिति चेत् । न तेषामपि परोक्षत्वात् । येषां तु तत्प्रत्यक्षत्वम्, तेषामात्मनाऽप्यन्येषां बुद्ध्यतिरेकिणे । ऽभाव एव । अपरेषां कथं चिद्भेदात्तद्ग्र णे एव तेषां ग्रहणमिति न व्यभिचारः । अथानुमानम, तदपि प्रतिबन्धबखादुदयमासादयति ।
·
·