________________
जैनवार्तिकवृत्तौ। प्रतिबन्धग्रहश्च न तावत् प्रत्यक्षेण, द्विष्ठसंबन्धसंवित्तिनै करूपप्रवेदनादिति । अनुमानेन प्रतिबन्धग्रहणेऽनवस्था, इतरेतराश्रयत्वं वा स्यात् । लिङ्गमपि न, अनुपलब्धेः । तस्या समावसाधनत्वात् । स्वभावहेतुरपि दृश्यव्यवहारमात्रसाधनकलः । कार्यमपि यदि प्रामारयनिश्चयस्तदा इतरेतराश्रयत्वम् । नक्ष मैर्मल्यादयो गुणाः दोषाभावव्यतिरेकिणः किं चित् । भावें. ऽपि वा तद्ग्राहि जानं तदन्य कारणगुणज्ञानापे तदपि तदन्यापेक्षमित्यनवस्था स्यात् । तन्न कारणगुणज्ञानापेक्षोऽपि प्रामारय. निश्चय इत्याशङ्काह बाधनेत्यादि । बाधनं बाधितत्वम् । तस्मात् संशयश्च, श्रादिग्रहणाद्विपर्ययश्च । तस्यासनं क्षेपणमासः । तस्मिन् सति प्रामाण्यं निश्चीयते इति।
ननु किं बाध्यम्, किं बाधकन , करच तदभाव इति ? । बाध्य, मिथ्यात्वमिति चेत् । किमिदं मिथ्यात्वम् ? ।वैपरीत्यमिति चेत् । कस्य वैपरीत्यम् ।। किं ख्यातेः, ख्यायमानस्य वा?। तदपि तयोः किमभावः, किं वान्यरूपादिनाउवभासनम् । अभावापि किमवभासकाले, कालान्तर वा। न तावदयभास. काले। तदानीमेध अवतासमानत्वात् । कालान्तरे चेत् । जणि. कत्वात सर्वख्यातीनां वैपरीत्यप्रसङ्गः । मर्थक्रियामावादभाव इति चेत् । कथमन्यस्यामावेऽन्यस्याभावः, अतिप्रसङ्गात् । तदानी च सर्वस्या क्रियाविरहास्तीति तथाभावः स्यात् । कालान्तरे सदमावो न समाख्यापयति । अतिप्रसङ्गात् । रूपवैपरीत्यं च केन प्रतीयते-किं पूर्वज्ञानेन, किंवा तेनैव, श्राहास्विदुत्तरकालभाविनेति ? । पर्वजानेन किं बाध्यकालादिस्थेन स्वकालादिस्थेन वा? । न तावत्पूर्वः पत्तः । तदानी तस्याविद्यमानत्वात् । नापि द्वितीयः। तत्काले मिथ्या
.
.