________________
प्रत्यक्षपरिच्छेदः । जानस्थामावाल, प्रमाणामावेन विषयाभावात् न तथा प्रतीतिरिति । अथ तेनैवात्मनोऽन्यदेशना प्रतीयते । तत्किं सा तस्मिन् कालेऽस्ति, किंवा नास्ति । यद्यस्ति कथं वैपरीत्यम्। भय नास्ति कथं विपरीतख्यातिः। तथा सति असख्यातिः स्यात्। उत्तरकालभाविच चिरविनष्टस्य कथं तथात्वं प्रतिपद्यते। किंच बाधकमसदिति प्रत्येति न वैपरीत्यमिति । तम्न विपरीतरव्यातिः । अथ स्मृतेः प्रमोषः । तथाहि-नागृहीतरजतस्य शुक्तिकावलोकनेऽपि इदं रजतमिति प्रतिभासो भवति । किं तु ग्रहीतरजतस्य तदनुभवाहितसंस्कारस्य चाकषिपसाम्यापहतचेतसः शुक्तिखण्डदर्शनप्रबोधितस्मृतिबीजस्य । तत्रनानेन सदृशं रजतमिति प्रतिभासो भवति । किं तु गृहीतस्मरणो नोपपादि। किन्त्विदमेव रजतमिति दर्शमस्मरणयोस्तद्विषययोश्चैकत्वप्रतीतिस्तत्प्रमोष इति । ननु किं दर्शनविषयस्य स्मृतिविषये भारीपः, किं वा स्मृतेर्दर्शनविषये इति ।। तत्र प्रथमपक्षे यत्र यदारीप्यते तत्र तत्प्रतिमासो भवति । यथा मरीचिकासु जल. मारीप्यमाणं मरीचिकादेशे भासते । ततः स्मर्यमाणदेशे शुक्तिप्रतिभासः स्यात् दन्तया रजतस्येति । द्वितीयेऽपि पक्षे स्मर्यमाणस्यास्पष्टत्वोत, पक्षित्वाद् दमिति दर्शनं कथं स्पटतया परोक्षतया प्रतिमासेत । किञ्च तयोरैक्यं केन प्रतीयते-किं पा ताभ्यामेव, अथान्येन ? । तत्र स्वसंवेदनाभ्यां स्वात्माऽपि नप्रतीयते कुत एक मन्येन स्वात्मैव्यमिति । स्वसंवेदनांभ्यामपि स्वात्मनि मग्नाभ्यां न द्वयस्यैक्य प्रतीतिः । मपि च यदि द्वयं वेद्यते कथमैक्यम् । अथ न वेद्यते कथमैक्यम् ।। अथ पूर्व द्वयं प्रतीत्य तदेव एकत्वेन प्रत्येति । । । संवेदनस्य क्षणिकत्वेन एतावन्तं कालमनवस्थानात । तत्तादात्म्येन च संवेदनमपि,