________________
जैनवार्तिकवृत्तौ ।
भिन्नमिति कथं पूर्वापरये। रैक्यं प्रतिपद्येत । खान्तत्वासा प्रत्येति चेन्न । आत्मख्यातिप्रसङ्गात् । तत्र च वक्ष्यामः । अथान्यत् । तच्च पूर्वदर्शना हितसंस्कारस्योत्तरदर्शन प्रबोधितस्मृतिबोजस्य कल्पकं ज्ञानं विज्ञानं तयोरसन्तमभेदं ख्यापयति तर्हि असत्ख्यातिः स्यान्नं स्मृतिप्रमेोषइति । तत्र स्मृतिप्रमोऽपि मिध्यात्वम् । छलौकिकल्वमिति चेत् । किमिदमलौकिकत्वम् - किमन्यरूपत्वम्, अथान्यक्रियाकारित्वम्, किं वाअन्यकारणजन्यत्वम्, आहोस्विदजन्यत्वमिति । तत्र न तावदन्यरूपत्वम् । यदेव हि सत्यस्य रूपं प्रतिभाति तदेवास्त्याभिमतस्यापि । न चान्यक्रियाकारित्वम् । अदर्शनात् । अन्य जन्यत्वे सर्वत्र नियमो न स्यात् ॥ लौकिके एव स इति चेत् । इतरेतराश्रयत्वम् । सत्यनियमेऽलौकिकत्वम्, सति अलैकिकत्वेऽनियम इति । जन्यत्वे नित्यं सत्वं वा भवेत् । ततश्च सत्यज्ञानवि. 'षयेाऽपि स्यात् । तन्नाले। किकत्वमिति । आत्मख्यातिरिति चेत् । afeकं परं ब्रह्म श्राहास्थिद्विज्ञानमिति । तत्र यदि तदद्वयं तदा द्वयदर्शननिबन्धना कथं तव भ्रान्तिः १ अतद्रूपचमादिति चेत् । तत्रापि यदि स्वरूपप्रतिभासः, कथं भ्रान्तिः ? । अथान्य रूपप्रतिभासः, कथमात्मख्यातिः । । अथात्मरूपस्यैव भ्रान्त्या - उम्यरूपत्वेनावभासनम् । ननु इतरेतराश्रयत्वम् । तथाहि - अन्य - रूपमवभास्यतीति भ्रान्तिः, भ्रान्त्याऽग्यरूपावभासनमिति । अथाविद्यया भ्रान्तं वेदनं जन्यते । कथं नित्यत्वं ब्रह्मणः । न च तदुद्व्यतिरेकेण तदस्ति । ग्राह्यग्राहका कारयोरनामरूपत्वात् । श्रात्मरूपत्वे वा तयोरपि सत्यत्वमात्मना वा ऽसत्यत्वमिति । अथ संवेदनमात्रं सत्यमात्मनेा रूपम्, तथाप्रतिभासस्तु अविद्यावशादिति । ननु सा विद्याऽऽत्मरूपम्,
T
२१