________________
२२
प्रत्यक्ष परिच्छेदः। अथान्यदेव किं चित् ? । यद्यात्मरूपं कथमविद्या? । प्रथान्यत कथमद्वैतम् ? । अथ भेदे प्रमाणाभावात्तथा प्रतिभासी भ्रान्तिरिति । तपाहि-भेदो वस्तुनः किं मिनः, किं वाभिन: । यद्यभिन्नो न भेदः । अथ मिलः, स किं प्रत्यक्षेण प्रतीयते, अथानुमानेन ? । प्रत्यक्षेण किं तदस्तुग्राहिणा, उतान्येन ? । यदि तद्वस्तुग्राहिणा तदा किं तस्मिन्नेष काले, कालान्तरे वा ? न तावत्तस्मिन्नेव काले। द्वयोः प्रतिभासाभावात्। कालान्तरे प्रत्यक्षस्यैव नष्टत्वान्न तेन भेदग्रहः । अन्यस्य तु तदानीमननुभवात् । अनुमानमपि न प्रत्यक्षालावे भेदग्राहि । किं च भेदस्यापि वस्तुनोऽन्यो भेदः, तत्राप्यन्य इत्यनन्तभेदावभासः स्यात् । नात्र मानमस्ति । इत्यादिपरविकल्पितं गजविकल्पायते, यतो भेद एव प्रत्यक्ष प्रतिभासते । तथाहि ग्राहकाकारमहंकारास्पदभूतं नीलादिकं च ग्राह्याकारं मुक्का नान्यत संवेदनमात्रं प्रतिभाति केवलमद्वैतवादी तदाशया उत्स्वनायत इति । अपि धायमभेदः कि वस्तुनो मिन्नः, किंवाभिन्नः? यद्यभिस्तदा नाभेदः । अथ मिनः स किं प्रत्यक्षण, किं वाउनुमानेन ? । प्रत्यक्षेणापि किं वस्तुग्राहिणा उतान्येन ? । वस्तुग्रा. हिणोऽपि किं युगपत्, क्रमेण वा? । न तावद्युगपत् । द्वयप्रतीतेरयोगात्। प्रतीतौ वा लुठितोऽभेदः । नापि क्रमेण । क्षणिकत्वात् । नधान्यत् प्रतिभाति । प्रत्यक्षामावाद् अनुमानमयि नास्ति । अथ वस्तुनो ग्राणे तदभिन्न स्यापि ग्रहणमिति भेदस्थापि तथा ग्रहणं किन भवति । किंचाभेदो नाम द्वितीयः पक्षः । तदग्रहे कथं ग्रहणमस्य । न हि यथा नीलग्राहि जानं यदेवं न भवति तदतोन्यदिति व्यवस्थापयति । तदा प्रेतादि अनेनाभिन्न मिति प्राप्नोति । न हि पीताद्यप्रतिभासने तेन सहैकत्वप्रतिभासो युक्तः।