________________
जैनवार्तिकवृत्तौ। भेदापि कथं भिद्यमानाप्रतिभास इति चेत् । तत्किं नीलस्थापि प्रतिभासोऽस्ति । अस्तीति चेत् । यद्येवं तत्किं पीतादि तत्र न प्रतिमासते ? । नेति चेत्। तत्कथं भेदः प्रतिभासः । नचैवं द्वितीयाप्रतिभासने तेन सहेरयमिति भासा युक्तिमानिति । प्रतिपादयिष्यते चाध्यक्षग्राह्यत्वं भेदस्यानावप्रमाणनिराकृताविति । तन्नात्मख्यातिरिति । बाधकमपि किमनुपलब्धिराहो. स्विद्वानमिति । अनुपलब्धिरपिकिं तस्मिन्नेव काले कालान्तरे वा? तत्र तस्मिन्नेव काले मिथ्याजान शेययोरनुपलबिधर्नास्तीति तदप्यवाच्यं स्यात् । उत्तरकाल तु सत्यविज्ञानेऽपि सन्दिग्धाप्रवृत्तौ । तन्निश्चये चक्रकमितरेतराश्रयत्वं वामाणि । अथ ज्ञानं तत्किं समानजातीयमुत भिन्न जातीयम् ? । समानजातीयमपि किमेंक सन्तानमुतभिन्नसन्तानम् ? । तदपि किं मेकविषयं भिन्नविषयं वा । तदपि किमेककोलं, भिन्नकालं वा । तत्र समानजातीयमेककालम् एकसंतानम् एकविषयं भिन्न. विषयं वा युगपद् ज्ञानद्वयं नोत्पद्यते । कथं तयोबाध्यबाधकभावः । भिन्न कालं तु तज्ज्ञानम् एकविषयं संवादकमेव स्याद्, न बाधकम् । भिगाविषयं तु तज्ज्ञानं यदि बाधकं स्यात्, तदा सर्व सर्वेण बाध्येत । भिन्न सन्तानं तु सभानजातीयमेककालं भिन्नकालं यद्येक विषयं संवादि स्यात्, न बाधकम् । भिनविषयस्य बाधकत्वे अतिप्रसङ्ग उक्तः। विजातीयं तु एकसन्तानवर्ति, एकविषयं, समानकालं वा यदि स्यात्संवादवत्स्यात्, न बाधकम् । उक्तज्ञानस्य विभिन्न विषयस्यापि सतो बाधकत्वे सर्व तेन बाध्यं स्यात् । भिन्न सन्तानमपि विजातीसयं मानकालं भिन्न. कालं यद्यकविषयं तदास्तु संवादकम् । श्रथ भिन्न विषयं तदा. किञ्चित्कामिति । तन्न बाधकमपि किंचित् । बाधकामावो