________________
प्रत्यक्षपरिच्छेदः। ऽपि किंतुच्छरूपः, किंवा वस्त्वन्तरजानम । तत्स्वरूपस्य कथं प्रतीतिः । अथ शानवस्वत इति तत्र-मर्पिषो यदि सौरभ्यं गोमयस्य किमागतम् । अथ स्वसंविदित ज्ञानं तत्राभवत् तन्निश्वापयति । तत्तत्र नास्ति तेन च निश्चय इति व्याहतम् । अन. नुभवात्तनिश्चय इति चेत् । स्वापाद्यवस्थास्वपि स्यात् । श्रथ वस्त्वन्तरजानं तस्मिन्मिथ्याचानेऽपि अस्तीति तत्रापि तन्निश्चयः स्यादिति तत्कथमबाधितत्वेनापि प्रामाण्यनिश्चय इति । अत्रीच्यते । यत्ताबदाध्यबाधकनिराकरणमकारि तत्किमद्वैतमाश्रित्य, अय बहिरर्थे स्थिते सतीति । तत्राद्वैतस्य शून्यस्य वाग्रे निराकरिष्यमाणत्वात् तदास्तु बर्हिरर्थमाश्रितवतः प्रमागविप्लवः प्रकृतं तिरोदधातीत्यवश्यं प्रमाणेतरव्यवस्थाऽभ्युपगन्तव्या । तत्र प्रमाणं किमविसंवादित्वेन किंवा ऽबाधितत्वेन किंवा प्रसिद्धानि प्रमाणानि । व्यवहारश्च तत्कृतः । प्रमाणल. सणस्योक्तौ ज्ञायते. न प्रयोजनमिति विचारः प्रवर्तते । न च केषां प्रसिद्धानि प्रमाणानि । किं शास्त्रविदामुतस्वित्तदितरेषामिति। तत्रेतरे जनाः प्रमाणस्य नामापि न जानन्ति किं तेषां प्रसिद्धम् । शास्त्रविदामपि संख्यादिषिप्रतिपत्तिदर्शनान्न प्रसिद्धानि। अत स्तेषां तबिराकरणाय प्रमाणप्रणयनमुपपत्तिमदिति। तत्राविसंवादित्वं द्वितीयप्रमाणापेक्षमिति सकलं प्रागुक्तदूषणजालमापत तति । अपि च शाकठिकाऽपि शास्त्रीस्तुल्याशूणविधानास्तथा कतिपदपरिमिता प्रवृत्तिश्चानिश्चयादपि भवन्ती कां क्षतिं करिष्यतीति न दृष्टार्थ लक्षणप्रणयनम् । किं तु दृष्टे व्यामोहः । अदृष्टमपि प्रसप्पैदिति शास्त्रम् । तत्राविसम्पादित्वलक्षणं अदृष्टाव्यापीति नोपपत्तिमत् । अबाधितत्वं पुनः सकलोपाधिविशुद्धमिहोपपद्यमानमदृष्टं व्यामोतीति युक्तम्। तथाहि