________________
जेनवार्तिकवृत्ती ।
7
ऽख्यभूतमालयविज्ञानं रागादिवाच्या डंकारास्पद्भूतं तेनेति । मनु निरन्वयक्षणिकविनाशे भेदाविशेषाद विभिन्न संतानवासनासंक्रान्तिरपि कस्मान्न भवति । अथ - यस्मिन्नेव हि संताने आहिता कर्मवासना । फलं तत्रैव सन्धत्ते कर्पासे रक्तता यथेत्यभिधीयते । न । संतामिव्यतिरिक्तस्य संतानस्याभावात् । अधारित कार्यकारणप्रवाहरूपः संतानः । न । कार्यकारणभावस्य निरन्वयक्षणिकपक्षे निषेत्स्यमानत्वादिति । किंच संवादशानमपि यदि संवादज्ञानापेक्षया प्रमाणम् । तदपि तदन्यापेक्षयेत्यनवस्या । अथ स्वतस्तदा पूर्वमपि तथैवास्तु किं संवादशामेन । अथ प्रेक्षाकारिणः प्रयोजन मुद्दिश्य प्रवर्तमानाः अर्थक्रियाय सिद्धायां निष्पन्नप्रयोजनाः न तत्प्रामाण्यपरीक्षायां मनः प्रणिदधति, अन्यच्चान्यस्यापि यत् प्रामाण्यकारि तत्स्वतः कथं न प्रमाणमिति । नैतदस्ति । यतो यथा ते प्रज्ञावतया प्रवर्त्तकं विचारयन्ति तथाऽर्थक्रियाज्ञानमपि किं स्वप्नदशायामिवासत्यमुतसत्यमिति । अथ तस्य बाधितत्वेने वासत्यत्वम् । तथाहि - प्रबोधानन्तरमेव शरीरवस्त्रादिरित्यन्यदवश्यमुपलभमाना भिन्नमेवेदं जलार्थक्रियाज्ञानमिति निश्चिन्वन्ति जाग्रदवस्यायां तु सर्वदेवा बाधितमर्थ क्रियाज्ञानमनुभवन्ता नसाशङ्का इति न प्रमाणान्तरमपेक्षन्त इति नानवस्था । त बाचितत्वेनैव प्रामाण्यनिश्चयः । किं च तत्संवादकशानं किमेकसंतानम्, भिन्नसंतानं वा ? । तदपि किमेककालं भिन्नकालंवा १। तदपि किं समानजातीयमुत भिन्नजातीयम् ? । समानजातीयमंत्रि किमेकविषयकमाहो स्विद्भिन्नविषयम् ? । तत्रैकसंतानवर्ति समाबकालं समानजातीयं समानविषयं वा भिवविषयं वा विज्ञानद्वयं युगपत्नोपपद्यते । भिन्नकालं तु तत् तैमिरिकचन्द्रद्वय
1
"
و