________________
१६
प्रत्यक्षपरिच्छ ेदः ।
नार्थेन जनिताका बुद्धी भोगस्तदात्मनः । नियतं विषयत्वेन ज्ञानाकारी निवर्तितः ॥ अर्थान्वयातिरेकेण व्याप्ता नीलादिभासवत् । भिनासः सितदुःखादिरभिन्ने बुद्धिवेदने ॥ अभिन्नाभे विभिन्ने चेद् भेदाभेद । किमाश्रयौं । नानात्वैकत्वयोर्यः स्यादेवं सति जगत्त्रये ॥ तस्मादन्तर्भवा एते चेतनाश्चेति साधितम् ।
?
तत्स्थितमेतत् स्वसंवेदनं ज्ञानमिति । अथ प्रमाणात् प्रवर्त्तमानाः किं निश्चितप्रामाण्यात् प्रवर्त्तन्ते किं वाऽनिश्चि प्रामाण्यादिति । यद्य निश्चितप्रामाण्यात् किं प्रमाणपरीक्षया ? । अथ "निश्चितप्रामाण्यात् तनिश्चयः किं संवादज्ञानात् किंश कारणगुणज्ञानादिति ? | प्रथमपक्षे संवादज्ञानं सहकारिकारणं सत्तनिश्चयमुत्पादयति, किं वा ग्रहणंसदिति ? | यदि सहकारिकारणं तन्नोपपद्यते । भिन्नकालत्वात । ग्राहकमपि कि प्रत्यक्षं सत् किंवा लिङ्गभूतमिति । न तावत् प्रत्यक्षम् । सत् प्रवर्तकस्य सुदूरं नष्टत्वात् । अपि चेन्द्रियजप्रत्यक्ष ज्ञानान्तरे स्वरूपमपि न प्रतिपद्यते कुत एव तत्प्रामाण्य मिति । लिङ्गभूतमपि नास्ति । यतेा लिङ्गं गृहीतसम्बन्धं ज्ञापयति । सम्बन्धग्रहेोऽपि न ताभ्याम् । परस्परस्याग्रहणात् । नापि ज्ञानान्तरेण, तत्स्वरूपाग्रहणादेव । अथानादित्वात् संसारस्य संवादकज्ञाननिबन्धनं प्रवर्तकस्य प्रामाण्यमनेकशो विनिश्चित्यं संदेहभाजि प्रवर्त्तकज्ञाने संवादकज्ञानान्निश्चय इति । नत्वत्र चक्रकं दूषणम् । तथाहि । निश्चतप्रामाण्यात्प्रवृत्तिः, प्रवृत्तौ संवादज्ञानम्, ततः प्रामाण्यनिश्चय इति । किं चानादौ संसारे निरात्मवादिनः केन सम्बन्धो गृह्यते ? । अथास्त्यनन्तवासना
1