Book Title: Jain Dharma aur Tantrik Sadhna
Author(s): Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 417
________________ ३९५ जैन धर्म और तांत्रिक साधना 'प्रणवो मौर्यपुत्राय स्वाहा' इति गणभृद्द्वयम् ।।६४।। पश्चिमायां 'वाय्वग्नभ्यां स्वाहा'न्ते 'प्रणवः' पुरः । 'अकम्पिताचलभ्राता मेतार्यः' इति मध्यतः ।।६५ ।। प्राच्यां गाथेश () काष्ठादौ चतुर्विदिक् त्रिदिक् क्रमात् । द्वौ द्वावेकैकश्च सूरिराजान इति मे मतिः ।।६६ ।। यद्वाप्राच्यां गुरुरतः प्राग्वद् गौतमासनमम्बुजम् । गाथाबीजयुतं ध्यानं वाच्यं प्राक् सूरियन्त्रतः ।।६७ ।। बहिश्चतुर्दलं पद्मं चतुर्दिक्षु लिखेदिदम् । 'ॐ नमो सव्वसिद्धाणं' पदं सर्वार्थसाधकम् ।।६८ ।। अष्टारमौलिकुम्भेषु 'जम्भे' 'मोहे' चतुष्टयम् । द्विरावर्त्य क्रमाल्लेख्यमयं मन्त्रश्च पश्चिमे ।।६६ || 'ॐ नमो अरिहंताणं एहि एहि नंदे महानंदे पंथे बंधे दुप्पयं बंधे चउप्पयं बंधे धोरं आसीविसं बंधे जाव गंठिं न मुञ्चामि' ।। इमामष्टशतं स्मृत्वा कृत्वा ग्रन्थिं स्ववाससि । पथि गम्यं न चौराद्युपद्रवः छोट्यते स्थितौ ।।१०० ।। 'मायाबीज' त्रिरेखाभिरुपर्या वेष्ट्यमन्ततः । 'नौँ' भूमण्डलं यद्वा वारुणं स्वस्ववर्णकम् ।।१०१।। मध्ये 'ऽहूँ'बीजमावेष्ट्यं केचिद् रत्नत्रयाक्षरैः । केचिच्च बीजचक्रेण गुरुरेव प्रमा मतः ।।१०२।। ध्यानम्अथ ध्यानविधिं वक्ष्ये जितेन्द्रियः हढव्रतः । सम्यग्हग् गुरुभक्तश्च सत्यवाग् मन्त्रसाधकः । ।१०३।। एकान्ते शुचिभूमौ स पूर्वोत्तराशादिङ्मुखः । तीर्थम्भो-गोमयरसैः सिक्तां भूमिं विचिन्तयेत् ।।१०४ ।। सहस्रदलपद मान्तः पर्यक्ङ कासनसंश्रितम् । प्रसन्नाभिर्जयाद्यष्टसुरीभिस्तीर्थ वारिभिः ।।१०५।। भृतैः सुवर्णभृग्गाकारैर्वक्त्रदत्ताम्बुजैः स्वकम् । स्नप्यमानं विचिन्त्यामुं मन्त्रं हृदि विचिन्तयेत् । ।१०६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496