Book Title: Jain Dharma aur Tantrik Sadhna
Author(s): Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 442
________________ ४२० जैन आचार्यों द्वारा विरचित ता० स्तोत्र सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् । भूतभव्यभवद्भर्ता, विश्वविद्यामहेश्वरः | | 99 ।। इति दिव्यादिशतम् ।।२ ।। स्थविष्ठः स्थविरो ज्येष्ठः प्रष्ठः प्रेष्ठो वरिष्ठधीः । स्थेष्ठो गरिष्ठो बंहिष्ठः श्रेष्ठोऽणिष्ठो गरिष्ठगीः ।।१।। विश्वभृद् विश्वसृट् विश्वेट्, विश्वभुग् विश्वनायकः । विश्वाशीर्विश्वरूपात्मा, विश्वजिद्विजितान्तकः । । २ ।। विभवो विभयो वीरो, विशोको विजरो जरन् । विरागो विरतऽसङ्गो, विविक्तो वीतमत्सरः ।।३।। विने यजनताबन्धु - र्वि लीनाशे षकल्मषः । वियोगो योगविद् विद्वान्, विधाता सुविधिः सुधीः । ।४ ।। क्षान्तिभाक्पृथ्वीमूर्तिः, शान्तिभाक् सलिलात्मकः । वायुमूर्तिरसङ्गात्मा, वहिमूर्तिरधर्मधक् । । ५ ।। सुयज्वा यजमानात्मा, सुत्वा सुत्रामपूजितः । ऋत्विग्यज्ञपतिर्याज्यो, यज्ञाङ्गममृतं हविः । । ६ । । व्योममूर्ति - रमूर्तात्मा, निर्लेपो निर्मलोऽचलः । सोममूर्तिः सुसौम्यात्मा, सूर्यमूर्तिहाप्रभः ।।७।। मन्त्रविन्मन्त्रकृन्मन्त्री, मन्त्रमूर्ति - रनन्तगः । स्वतन्त्रस्तन्त्रकृत्स्वन्तः कृतान्तान्तः कृतान्तकृत् । । ८ ।। कृती कृतार्थः सत्कृत्यः कृतकृत्यः कृतक्रतुः । नित्यो मृत्युञ्जयोऽमृत्यु-रमृतात्माऽमृतोद्भवः । ।६ ।। ब्रह्मनिष्ठः परंब्रह्म, ब्रह्मत्मा ब्रह्मसम्भवः । महाब्रह्मपतिर्ब्रह्मेट्, महाब्रह्मपदेश्वरः । ।१० ।। सुप्रसन्नः प्रसन्नात्मा, ज्ञानधर्मदमप्रभुः । प्रशमात्मा प्रशान्तात्मा, पुराणपुरुषोत्तमः । । ११ । । इति स्थविष्ठादिशतम् । । ३ । । महाशोकध्वजोऽशोकः कः स्रष्टा पद्मविष्टरः । पद्मेशः पद्मसम्भूतिः पद्मनाभि-रनुत्तरः ।।१।। पद्मयोनिर्जगद्योनि- रित्यः स्तुत्यः स्तुतीश्वरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496