Book Title: Jain Dharma aur Tantrik Sadhna
Author(s): Sagarmal Jain
Publisher: Parshwanath Vidyapith
View full book text
________________
४२८ श्रीसरस्वतीकल्पः।
-श्री बप्पभट्टसूरि कन्दात् कुण्डलिनी! त्वदीयवपुषा निर्गत्य तन्तुत्विषा किञ्चिम्बितमम्बुजं शतदलं त्वद् ब्रह्मरन्ध्रादयः । यश्चन्द्रद्युति! चिन्तयत्यविरतं भूयोऽस्य भूमण्डले तन्मन्ये कविचक्रवर्तिपदवी छत्रच्छलाद् वल्गति ।।१।। यस्त्वद्वक्त्रमृगाकमण्डलमिलत्कान्तिप्रतानोच्छलच्चञ्चच्चन्द्र कचक्रचित्रितककुप्कन्याकुल! ध्यायति । वाणि! वाणिविलासभङ्गुरपदप्रागल्भ्यशृग्ङ्गारिणी नृत्यत्युन्मदनर्तकीव सरसं तद्वक्त्ररङ्गाङ्गणे ।।२।। देवि! त्वद्धृतचन्द्रकान्तकरकश्च्योतत्सुधानिर्झरस्नानानन्दतरङ्गितं पिबति यः पीयूषधारधरम् । तारालंक तचन्द्र शक्ति कु हरे णाकण्ठ मुत्कण्ठितो वक्त्रेणोदिगरतीव तं पुनरसौ वाणीविलासच्छलात् ।।३।। क्षुभ्यत्क्षीरसमुद निर्गत महाशे षाहिलो लत्फणापत्रो निद सितारविन्द कु हरै श्चन्द्र स्फुरत्कर्णि कैः । देवि! त्वां च निजं च पश्यति वपुर्यः कान्तिभिन्नान्तरं ब्राह्मि! ब्रह्मपदस्य वल्गति वचः प्रागल्भदुग्धाम्बुधेः । ।४ ।। नाभीपाण्डुरपुण्डरीककुहराद् हृत्पुण्डरीके गलत्पीयूषद्रववर्षिणि! प्रविशतीं त्वां मातृकामालिनीम। दृष्ट्वा भारति! भारती प्रभवति प्रायेण पुंसो यथा निर्ग्रन्थीनि शतान्यपि ग्रथयति ग्रन्थायुतानां नरः ।।५।। त्वा मुक्तामयसर्वभूषणगणां शुक्लाम्बराडम्बरा गौरी गौरिसुधातरङ्गधवलामालोक्य हृत्पङ्कजे । वीणापुस्तकमौक्ति काक्षवलय श्वे ताब्जवल्गत्करा न स्यात् कः स्फुटवृत्तचक्ररचनाचातुर्यचिन्तामणिः ।।६।। पश्येत् स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितां यो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डै रिव । स्वच्छन्दो द ग त गद्य पद्य लहरीलीलाविलासाम तै: सानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव ।।७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496