Book Title: Jain Dharma aur Tantrik Sadhna
Author(s): Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 487
________________ ४६५ श्री लघुशान्ति-स्तव शान्ति शान्ति - निशान्तं शान्तं शान्ताऽशिवं नमस्कृत्य । स्तोतुः शान्ति - निमित्तं, मंत्रपदैः शान्तये स्तौमि ||१|| ओमिति निश्चितवचसे, नमो नमो भगवतेऽर्हते पूजाम् । शान्तिजिनाय जयवते, यशस्विने स्वामिने दमिनाम् । । २ । । सकलातिशेषक-महासम्पत्ति - समन्विताय शस्याय । त्रैलोकपूजिताय च नमो नमः शान्तिदेवाय || ३ || सर्वामरसुसमूह - स्वामिक- सम्पूजिताय निर्जिताय । भुवनजनपालनोद्यततमाय सततं नमस्तस्मै । । ४ ।। सर्वदुरितौघनाशनकराय, सर्वाऽशिवप्रशमनाय | दुष्टग्रहभूतपिशाच, शाकिनीनां प्रमथनाय । । ५ ।। यस्येति नाममंत्रप्रधान - वाक्योपयोगकृततोषा । विजया कुरुते जनहितमित च, नुता नमत तं शान्तिम् । । ६ । । भवतु नमस्ते भगवति ! विजये सुजये परापरैरजिते! | अपराजिते! जगत्यां जयतीति जयावहे ! भवति । ।७।। सर्वस्यापि च संघस्य, भद्रकल्याण मंगलप्रददे! | साधूनां च सदा शिव-सुतुष्टि- पुष्टिप्रदे जीयाः । । ८ ।। भव्यानां कृतसिद्धे! निर्वृत्तिनिर्वाणजननि सत्त्वानाम् । अभयप्रदाननिरते, नमोऽस्तु स्वस्तिप्रदे! तुभ्यम् । । ६ । । भक्तानां जन्तूनां शुभावहे, नित्यमुद्यते देवि! । सम्यग्दृष्टीनां, धृतिरतिमतिबुद्धिप्रदानाय | १० || जिनशासननिरतानां शान्तिनतानां च जगति जनतानाम् । श्रीसम्पतकीर्तियशोवर्द्धिनि जय देवि! विजयस्व । । ११ । । सलिलानल - विष - विषधर दुष्ट ग्रह - राज- रोग - रणभयतः । राक्षस - रिपुगण - मारि - चौरेति - श्वापदादिभ्यः । ।१२ । । अथ रक्ष रक्ष सुशिवं कुरु कुरु शान्तिं च कुरु कुरु सदेति । तुष्टिं कुरु कुरु पुष्टिं कुरु कुरु स्वस्ति च कुरु कुरु त्वम् ||१३|| भगवति गुणवति! शिवशान्ति तुष्टिपुष्टीः स्वस्तीह कुरु कुरु जनानाम् । ओमिति नमो नमो हाँ ह्रीं हूँ, हः यः क्षः हीं फुट्फुट् स्वाहा | | १४ || एवं यन्नामाक्षरपुरस्सरं संस्तुता जया देवी । जैनधर्म और तान्त्रिक साधना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496