Book Title: Jain Dharma aur Tantrik Sadhna
Author(s): Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 479
________________ ४५७ जैनधर्म और तान्त्रिक साधना पात्रं जीवमनः प्रसादजनकं भाति त्वदीयं मुखम् ।।२।। श्रीचक्रेश्वरी युष्मदाननरविं पश्यन्ति नैवोदितं ध्वस्तध्वान्तततिं प्रदत्तसुगतिं संप्राप्तमार्गस्थिति। ते ज्ञेया इह कौशिका इव जना हेयाः सतां सर्वथा नादेयाः कुदृशो भवन्ति भगवत्युच्चैः शिवं वांछतां ।।३।। श्रीचक्रेश्वरी युष्मदंघ्रिचरितं सर्वत्र तद्विश्रुतं। कस्याज्ञस्य मनोमुदे भवति नो निष्पुण्यचूडामणेः । कारुण्यान्वितमंगिसंमतमतिभ्रान्तिप्रशान्तप्रियं श्रीसंकेतगृहं सदास्तविरहं पुण्यानुबन्धि स्फुटम् ।।४।। श्रीचक्रेश्वरि ये स्तुवन्ति भवती भच्या भवद्भक्तयः । श्रीसर्वज्ञपदारविन्दयुगले विश्राममातन्वतीम् ।।। भृङ्गीवत्सदृशां सुखं त्वसदृशं संप्रार्थयन्तो जनास्ते स्युर्ध्वस्तविपत्तयः सुमतयः स्पष्टं जितारातयः ।।५।। श्रीचक्रेश्वरि नित्यमेव भवतीनामाऽपि ये सादरं। सन्तः सत्यशमाश्रिताः प्रतिपदं सम्यक् स्मरन्ति स्फुरत् ।। तेषां किं दुरितानि यान्ति निकटे नायाति किं श्रीगुहे। नोपैति द्विषतां गणोऽपि विलयं नाऽभीष्टसिद्धिर्भवेत् ।।६।। श्रीचक्रेश्वरि ये भवन्ति भवतीपादारविन्दाश्रितास्ते भृङ्गा इव कामितार्थमधुनः पात्रं सदैवाङ्गिनः। जायन्ते जगति प्रतीतिभवनं भव्याः स्फुरत्कीर्तयस्तेषां क्वापि कदापि सा भवति नो दारिद्र्यमुद्रा गृहे।७।। श्रीचक्रेश्वरि यः स्तवं तव करोत्युच्चैः स किं मानवः कस्मादन्यजनाच्च याचत इह क्लेशैर्विमुक्ताशयः । कासश्वासशिरोगलग्रहकटीवातातिसारज्वरस्रोतोनेत्रगतामयैरपि न स श्रेयानिह प्रार्थते ।।८।। श्रीचक्रेश्वरि शासनं जिनपतेस्तद्रक्षसि त्वं मुदा ये केचिज्जिनभाषितान्यवितथान्युच्चैः प्रजल्पन्ति च। भव्यानां पुरतो हितानि कुरुषे तेषां तु तुष्टिं सदा क्षुद्रोपद्रवविद्रवं प्रतिपदं कृत्वा कृतान्तादपि ।।६।। श्रीचक्रेश्वरि विश्वविस्मयकरी त्वं कल्पवृक्षोपमा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496