Book Title: Jain Dharma aur Tantrik Sadhna
Author(s): Sagarmal Jain
Publisher: Parshwanath Vidyapith
View full book text
________________
४४१ जैनधर्म और तान्त्रिक साधना श्री अम्बिकास्तवनम्
-महामात्यश्रीवस्तुपाल पुण्ये गिरीशशिरसि प्रथितावतारामासूत्रितत्रिजगतीदुरितापहाराम्। दौर्गत्यपातिजनताजनितावलम्बामम्बामहं महिमहैमवतीं महेयम् ।।१।। यद्वक्त्रंकुञ्जरहरोद्गतसिंहनादोऽप्युन्मादिविघ्नकरियूथकथाममाथम् । कूष्माण्डि खण्डयतु दुर्विनयेन कण्ठः कण्ठीरवः स तव भक्तिनतेषु भीतिम् ।।२।। कूष्माण्डि! मण्डनमभूत्तव पादपद्मयुग्मं यदीयहृदयावनिमण्डलस्य। पद्मालया नवनिवासविशेषलाभलुब्धा न धावति कुतोऽपि ततः परेण।।३।। दारिद्रयदुर्दमतमःशमनप्रदीपाः सन्तानकाननघनाघनवारिधाराः । दुःखोपतप्तजनबालमृणालदण्डाः कूष्माण्डि! पातु पदपद्मनखांशवस्ते ।।४।। देवि! प्रकाशयति सन्ततमेष कामं वामेतरस्तव करश्चरणानतानाम् । कुर्वन् पुरः प्रगुणितां सहकारलुम्बिमम्बे! विलम्बविकलस्य फलस्य लाभम् ।।५।। हन्तुं जनस्य दुरितां त्वरिता त्वमेव नित्यं त्वमेव जिनशासनरक्षणाय । देवि! त्वमेव पुरुषोत्तममाननीया कामं विभासि विभया सभया त्वमेव ।।६।। तेशां मृगेश्वरगरज्वरमारिवैरिदुर्वारवारणजलज्वलनोद्भवा भीः । उच्छृङ्खलं न खलु खेलति येषु धत्से वात्सल्यपल्लवितमम्बकमम्बिके! त्वम्। ७ ।। देवि! त्वर्जितजितप्रतिपन्थितीर्थयात्राविधौ बुधजनाननरङ्गसङ्गि। एतत्त्वयि स्तुतिनिभाद्भुतकल्पवल्लीहल्लीसकं सकलसंघमनोमुदेऽस्तु।।८ || वरदे! कल्पवल्लि! त्वं स्तुतिरूपे! सरस्वति! पादाग्रानुगतं भक्तं लम्भयस्वातुलैः फलैः ।।६।। स्तोत्रं श्रोत्ररसायनं श्रुतसरस्वानम्बिकायाः पुरश्चक्रे गूर्जरचक्रवर्तिसचिवः 'श्रीवस्तुपालः कविः । प्राप्तः प्रातरधीयमानमनघं यच्चित्तवृत्तिं सतामाधत्ते विभुतां च ताण्डवयति श्रेयःश्रियं पुष्यति ।।१०।। इत्यम्बिकास्तुतिः।
श्रीपदमावतीस्तोत्रम्।। श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमाला
ज्योतिर्खालाकरालास्फुरितमुकुरिकाघृष्ठपादारविन्दे! व्याघोरोल्कासहस्रस्फुरज्ज्वलनशिखालोलपाशाङ्कुशाढ्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496