Book Title: Jain Dharma aur Tantrik Sadhna
Author(s): Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 468
________________ ४४६ जैनाचार्यों द्वारा विरचित ता० स्तोत्र श्रीमज्जैनेन्द्रधर्मं प्रकटय विमल देवि! पद्मावति! त्वम् ।।३१।। दिव्यं स्तोत्रं पवित्रं पटुतरपठतां भक्तिपूर्वं त्रिसन्ध्यं लक्ष्मीसौभाग्यरूपं दलितकलिमलं मङ्गलं मङ्गलानाम् । पूज्य कल्याणमाद्यं जनयति सततं पार्श्वनाथप्रसादाद् देवी पद्मावती नः प्रहसितवदना या स्तुता दानवेन्द्रैः । ।३२।। पठितं भणितं गुणितं जयविजयरमानिबन्धनं परमम् । सर्वाधिव्याधिहरं जपतां पद्मावती स्तोत्रम् ।।३३।। आद्यं चोपद्रवं हन्ति द्वितीयं भूतनाशनम्। तृतीये चामरी हन्ति चतुर्थे रिपुनाशनम् ।।३४ ।। पञ्च पञ्चजनानां च वशीकारं भवेद् ध्रुवम् । षष्ठे चोच्चाटनं हन्ति सप्तमे रिपुनाशनम् ।।३५।। अत्योद्वेगा चाष्टमे च नवमे सर्वकार्यकृत्।। इष्टा भवन्ति तेषां च त्रिकालपठनार्थिनाम् ।।३६ ।। आहानं नैव जानामि न जानामि विसर्जनम्। पूजार्चे नैव जानामि त्वं गतिः परमेश्वरि! ।।३७ ।। अथाहानम्। श्रीपार्श्वनाथ! जिननायक! रत्नचूडा पाशाङ्कुशोरगफलाङ्कितदोश्चतुष्का । पद्मावती त्रिनयना. त्रिफणावतंसं पद्मावती जयति शासनपुण्यलक्ष्मीः ।। ॐ आँ क्रीँ अरुणवर्णसर्वलक्षणसम्पूर्णः स्वायुधवाहनबन्धुचिह्नसपरिवारान् नमोऽस्तुते हे पद्मावति! देवि! अत्रागच्छागच्छ तिष्ठ तिष्ठ ठः ठः मम सन्निहिता भव भव वषट् स्वाहा। अथाष्टकम् ॐ हीं श्री मन्त्ररूपे! विबुधजननुते! देवदेवेन्द्रवन्ये! चञ्चच्चन्द्रावदाते! क्षपितकलिमले! हारनीहारगौरे! । भीमे! भीमाट्टहासे भवभयहरणे! भैरवे! भीमरूपे हाँ ह्रीं हूँकारनादे! विशदजलभरस्त्वां यजे देवि! पद्म! ।।१।। ___ ॐ हीं श्रीँ श्री पद्मावत्यै जलंम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496