Book Title: Jain Dharma aur Tantrik Sadhna
Author(s): Sagarmal Jain
Publisher: Parshwanath Vidyapith
View full book text
________________
४२६ जैन आचार्यों द्वारा विरचित ता० स्तोत्र
दिग्वासा वातरशनो, निर्ग्रन्थेशो निरम्बरः । निष्किञ्चनो निराशंसो, ज्ञानचक्षु-रमोमुहः ||१|| तेजोराशि - रनन्तौजा, ज्ञानाब्धिः शीलसागरः । तेजोमयोऽमितज्योति - ज्र्ज्योतिर्मूर्तिस्तमोपहः । । २ । । जगच्चूडामणिर्दीप्तः, शंवान्विघ्नविनायकः । कलिघ्नः कर्मशत्रुघ्नो, लोकालोकप्रकाशकः । । ३ । । अनिद्रालु - रतन्द्रालु- र्जागरूकः प्रमामयः । लक्ष्मीपतिर्जगज्ज्योति-धर्मराजः प्रजाहित । । ४ । । मुमुक्षुर्बन्धमोक्षज्ञो, जिताज्ञो जितमन्मथः । प्रशान्तरसशैलूषो भव्यपेटकनायकः । । ५ । । मूल कर्ताऽखिलज्योति-र्मलघ्नो मूलकारणं । आप्तो वागीश्वरः श्रेयाञ्छ्रायसोक्तिर्निरुक्तवाक् । । ६ । । प्रवक्ता वचसामीशो, मारजिद्दिश्वभाववित् । सुतनुस्तनुनिमुक्तः, सुगतो हतदुर्नयः । ।७ । । श्रीशः श्रीश्रितपादाब्जो, वीतभी-रभयङ्करः । उत्सन्नदोषो निर्विघ्नो, निश्चलो लोकवत्सलः ||८|| लोकोत्तरो लोकपति-ल कचक्षुरपारधीः । धीरधीर्बुद्धसन्मार्गः शुद्धः सूनृतपूतवाक् ।।६।। प्रज्ञापारमितः प्राज्ञो, यतिर्तियमितेन्द्रियः । भदन्तो भद्रकृभ्दद्रः, कल्पवृक्षो वरप्रदः || १० || समुन्मूलितकर्मारिः, कर्मकाष्ठाऽऽशुशुक्षणिः । कर्मण्यः कर्मठः प्रांशु- र्हेयादेयविचक्षणः । । ११ | | अनन्तशक्तिरच्छेद्य-स्त्रिपुरारिस्त्रिलोचनः । त्रिनेत्रस्त्र्यम्बकस्त्र्यक्षः, केवलज्ञानवीक्षणः । ।१२ ।। समन्तभद्रः शान्तारिर्धर्माचार्यो दयानिधिः । सूक्ष्मदर्शी जितानङ्गः कृपालुर्धर्मदेशकः || १३ || शुभंयुः सुखसादभूतः पुण्यराशि- रनामयः । धर्मपालो जगत्पालो, धर्मसाम्राज्यनायकः । ।१४।। इति दिग्वासाद्यष्टोत्तरशतम् । । १० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496