Book Title: Jain Dharma aur Tantrik Sadhna
Author(s): Sagarmal Jain
Publisher: Parshwanath Vidyapith
View full book text
________________
४२३
महाकर्मारिहाऽऽत्मज्ञो, महादेवो महेशिता । । ७ ।। सर्व क्लेशापहः साधुः, सर्वदोषहरो हरः । असंख्येयो प्रमेयात्मा, शमात्मा प्रशमाकरः । ८ ।। सर्व योगीश्वरोऽचिन्त्यः श्रुतात्मा विष्टरश्रवाः ! दान्तात्मा दमतीर्थेशो, योगात्मा ज्ञानसर्वगः ।। ६ ।। प्रधानमात्मा प्रकृतिः, परमः परमोदयः । प्रक्षीणबन्धः कामारिः क्षेमकृत्क्षेमशासनः ||१०|| प्रणवः प्रणतः प्राणः, प्राणदः प्राणतेश्वरः । प्रमाणं प्रणिधिर्दक्षो, दक्षिणोऽध्वर्युरध्वरः ||११ । । आनन्दो नन्दनो नन्दो, वन्द्योऽनिन्द्योऽभिनन्दनः । कामहा कामदः, काम्यः कामधेनु - ररिञ्जयः । । १२ ।। इति महामुन्यादिशतम् । । ६ । । असंस्कृत सुसंस्कारः, प्राकृतो वैकृतान्तकृत । अन्तकृत्कान्तगुः कान्त - श्चिन्तामणिरभीष्टदः । । १ । । अजितो जितकामारि - रमितोऽमितशासनः । जितक्रोधो जितामित्रो, जितक्लेशो जितान्तकः ।।२ ।। जिनेन्द्रः परमानन्दो, मुनीन्द्रो दुन्दुभिस्वनः । महेन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो नाभिनन्दनः । । ३ । । नाभेयो नाभिजो जातः, सुव्रतो मनुरुत्तमः । अभेद्योऽनत्ययोऽनाश्वा-नधिकोऽधिगुरुः सुधीः । । ४ । । सुमेधा विक्रमी स्वामी, दुराधर्षो निरुत्सुकः । विशिष्टः शिष्टभुक् शिष्टः, प्रत्ययः कामनोऽनघः । । ५ । । क्षमी क्षेमङ्करोऽक्षय्यः, क्षेमधर्मपतिः क्षमी । अग्राह्यो ज्ञाननिग्राह्यो, ध्यानगम्यो निरुत्तरः । । ६ । । सुकृती धातुरिज्यार्हः सुनयश्चतुराननः । श्रीनिवासश्चतुर्वक्त्र - चतुरास्यश्चतुर्मुखः । ।७। सत्यात्मा सत्यविज्ञान: सत्यवाक्सत्यशासनः । सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः । । ८ । स्थेयान्स्थवीयान्नेदीया न्दवीयान् दूरदर्शनः ।
Jain Education International
जैनधर्म और तांत्रिक साधना
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496