Book Title: Jain Dharma aur Tantrik Sadhna
Author(s): Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 436
________________ ४१४ जैन आचार्यों द्वारा विरचित ता० स्तोत्र स्वर्भानुरर्कस्य हविर्भुजोऽम्भः कल्पान्तवावातोऽम्बुनिधेर्विधातः । संसार-भोगस्य वियोग-भावो विपक्ष-पूर्वाभ्युदयास्त्वदन्ये ।।२६ ।। अजानतस्त्वां नमत: फलं यत् तज्जानतोऽन्यं न तु देवतेति । हरिन्मणिं काचधिया दधान स्तं तस्य बुद्ध्या वहतो न रिक्तः । ।२७ ।। प्रशस्त-वाचश्चतुराः कषायै र्दग्धस्य देव-व्यवहारमाहुः । गतस्य दीपस्य हि नन्दित्त्वं । दृष्टं कपालस्य च मग्ङलत्वम् ।।२८ ।। नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तुः ।। निर्दोषतां के न विभावयन्ति __ज्वरेण मुक्तः सुगमः स्वरेण ।।२६ ।। न क्वापि वाञ्छा ववृते च वाक् ते काले क्वचित् कोऽपि तथा नियोगः। न पूरयाम्यम्बुधिमित्युदंशुः स्वयं हि शीतद्युतिरभ्युदेति।।३०।। गुणा गभीराः परमाः प्रसन्ना बहु-प्रकारा बहवस्तवेति। दृष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति ।।३१।। स्तुत्या परं नाभिमतं हि भक्त्यां स्मृत्या प्रणत्या च ततो भजामि। स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यम् ।।३२।। ततस्त्रिलोकी-नगराधिदेवं नित्यं परं ज्योतिरनन्त-शक्तिम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496