________________
४१४ जैन आचार्यों द्वारा विरचित ता० स्तोत्र स्वर्भानुरर्कस्य हविर्भुजोऽम्भः
कल्पान्तवावातोऽम्बुनिधेर्विधातः । संसार-भोगस्य वियोग-भावो
विपक्ष-पूर्वाभ्युदयास्त्वदन्ये ।।२६ ।। अजानतस्त्वां नमत: फलं यत्
तज्जानतोऽन्यं न तु देवतेति । हरिन्मणिं काचधिया दधान
स्तं तस्य बुद्ध्या वहतो न रिक्तः । ।२७ ।। प्रशस्त-वाचश्चतुराः कषायै
र्दग्धस्य देव-व्यवहारमाहुः । गतस्य दीपस्य हि नन्दित्त्वं ।
दृष्टं कपालस्य च मग्ङलत्वम् ।।२८ ।। नानार्थमेकार्थमदस्त्वदुक्तं
हितं वचस्ते निशमय्य वक्तुः ।। निर्दोषतां के न विभावयन्ति
__ज्वरेण मुक्तः सुगमः स्वरेण ।।२६ ।। न क्वापि वाञ्छा ववृते च वाक् ते
काले क्वचित् कोऽपि तथा नियोगः। न पूरयाम्यम्बुधिमित्युदंशुः
स्वयं हि शीतद्युतिरभ्युदेति।।३०।। गुणा गभीराः परमाः प्रसन्ना
बहु-प्रकारा बहवस्तवेति। दृष्टोऽयमन्तः स्तवने न तेषां
गुणो गुणानां किमतः परोऽस्ति ।।३१।। स्तुत्या परं नाभिमतं हि भक्त्यां
स्मृत्या प्रणत्या च ततो भजामि। स्मरामि देवं प्रणमामि नित्यं
केनाप्युपायेन फलं हि साध्यम् ।।३२।। ततस्त्रिलोकी-नगराधिदेवं
नित्यं परं ज्योतिरनन्त-शक्तिम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org