Book Title: Jain Darshan ke Maulik Tattva
Author(s): Nathmalmuni, Chhaganlal Shastri
Publisher: Motilal Bengani Charitable Trust Calcutta

View full book text
Previous | Next

Page 491
________________ जैन दर्शन के मौलिक तत्व एकप्रदेशादिषु विकल्प्यः पुहलानाम् ॥ प्र० ११२६ ॥ लोकस्यैकप्रदेशादिषु पुद्गलानामवगाही विकल्पनीयः । असंख्येयभागादिषु जीवानाम् ॥ प्र० ११३० ॥ जीवः खलु स्वभावात् लोकस्य श्रल्पात् अल्पम संख्येयप्रदेशात्मकम संख्येयतमं भागमवरुध्य तिष्ठति, न पुद्गलवत् एक प्रदेशादिकम्, इति असंख्येयमागादिषु जीवानामवगाहः । असंख्येयप्रदेशात्मके च लोके परिणतिवैचित्र्यात् प्रदीपप्रभापटलबदनन्तानामपि जीवपुद्गलाना समावेशी न दुर्घटः । [ EL कालः समयक्षेत्रवर्ती ॥ प्र० १।३१ ॥ व्यावहारिक' कालो हि सूर्याचन्द्रमसोर्गतिसम्बन्धी । सूर्यचन्द्राश्च मे प्रदक्षिणीकृत्य समयक्षेत्र एव नित्यं भ्रमन्ति । ततोऽयं च सन्तोऽपि बस्थिताः, तस्मात् समयक्षेत्रवर्ती कालः । जम्बूधातकीखण्डार्ध पुष्कराः समयक्षेत्रमसंख्यद्वीपसमुद्रेषु ॥ प्र० १३२ ॥ तियंग लोके द्विद्विरायामविष्कम्भाः पूर्वपूर्वपरिक्षेषिणो वलय संस्थाना असंख्येयद्वीपसमुद्राः सन्ति । तत्र लवणकालोदधिवेष्टितौ, जम्बूधातकीखण्डो, पुष्करार्ध वेति सार्श्वद्वयद्वीपसमुद्राः “समयक्षेत्रम्" उच्यते, मनुष्यक्षेत्रमपि अस्य पर्यायः । सर्वाभ्यन्तरो मेरुनाभिवृ तोयोजनलक्षविष्कम्भो जम्बूद्वीपः ॥ प्र० ११३३ ॥ तत्र भरतबहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः सप्तक्षेत्राणि ॥ प्र० १।३४ तदुविभाजिनश्च पूर्वापरायता हिमवन्महाहिमवन्निषिधनीलरूक्मिशिखरिणः पद्मर्षधरपर्वताः ॥ प्र० ११३५ ॥ १ - जम्बूद्वीपे द्वौ द्वौ सूर्याचन्द्रमसौ । लवणसमुद्रे चत्वारः । धातकीखण्डे द्वादश । कालोदधौ द्वाचत्वारिंशत् । अर्धपुष्करद्वीपे द्विसप्ततिः । सर्वे मिलिता द्वात्रिंशत्तरशतं सूर्याश्चन्द्राश्च । घातकीखण्डात् सूर्याश्चन्द्राश्च त्रिगुणिताः पूर्ववर्तिभिश्च योजिता अभिमस्य संख्यां सूचयति । एषा पद्धतिः स्वयंभूरमणान्तं प्रयोज्या ।

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543