________________
जैन दर्शन के मौलिक तत्व
एकप्रदेशादिषु विकल्प्यः पुहलानाम् ॥ प्र० ११२६ ॥ लोकस्यैकप्रदेशादिषु पुद्गलानामवगाही विकल्पनीयः ।
असंख्येयभागादिषु जीवानाम् ॥ प्र० ११३० ॥ जीवः खलु स्वभावात् लोकस्य श्रल्पात् अल्पम संख्येयप्रदेशात्मकम संख्येयतमं भागमवरुध्य तिष्ठति, न पुद्गलवत् एक प्रदेशादिकम्, इति असंख्येयमागादिषु जीवानामवगाहः । असंख्येयप्रदेशात्मके च लोके परिणतिवैचित्र्यात् प्रदीपप्रभापटलबदनन्तानामपि जीवपुद्गलाना समावेशी न दुर्घटः ।
[ EL
कालः समयक्षेत्रवर्ती ॥ प्र० १।३१ ॥
व्यावहारिक' कालो हि सूर्याचन्द्रमसोर्गतिसम्बन्धी । सूर्यचन्द्राश्च मे प्रदक्षिणीकृत्य समयक्षेत्र एव नित्यं भ्रमन्ति । ततोऽयं च सन्तोऽपि बस्थिताः, तस्मात् समयक्षेत्रवर्ती कालः । जम्बूधातकीखण्डार्ध पुष्कराः समयक्षेत्रमसंख्यद्वीपसमुद्रेषु ॥ प्र० १३२ ॥
तियंग लोके द्विद्विरायामविष्कम्भाः पूर्वपूर्वपरिक्षेषिणो वलय संस्थाना असंख्येयद्वीपसमुद्राः सन्ति । तत्र लवणकालोदधिवेष्टितौ, जम्बूधातकीखण्डो, पुष्करार्ध वेति सार्श्वद्वयद्वीपसमुद्राः “समयक्षेत्रम्" उच्यते, मनुष्यक्षेत्रमपि अस्य पर्यायः ।
सर्वाभ्यन्तरो मेरुनाभिवृ तोयोजनलक्षविष्कम्भो जम्बूद्वीपः ॥ प्र० ११३३ ॥ तत्र भरतबहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः
सप्तक्षेत्राणि ॥ प्र० १।३४
तदुविभाजिनश्च पूर्वापरायता हिमवन्महाहिमवन्निषिधनीलरूक्मिशिखरिणः पद्मर्षधरपर्वताः ॥ प्र० ११३५ ॥
१ - जम्बूद्वीपे द्वौ द्वौ सूर्याचन्द्रमसौ । लवणसमुद्रे चत्वारः । धातकीखण्डे द्वादश । कालोदधौ द्वाचत्वारिंशत् । अर्धपुष्करद्वीपे द्विसप्ततिः । सर्वे मिलिता द्वात्रिंशत्तरशतं सूर्याश्चन्द्राश्च । घातकीखण्डात् सूर्याश्चन्द्राश्च त्रिगुणिताः पूर्ववर्तिभिश्च योजिता अभिमस्य संख्यां सूचयति । एषा पद्धतिः स्वयंभूरमणान्तं प्रयोज्या ।