Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat

View full book text
Previous | Next

Page 416
________________ १२५ निश्चयनयाभिमतः पन्थाः । व्यवहारनयस्तु योगबीजमप्युपचारेण योगमेवेच्छतीति व्यवहारनयेनापुनर्बन्धकादयः स्थानादियोगस्वामिनः, निश्चयनयेन तु चारित्रिण एवेति विवेकः । तदिदमुक्तम्-अपुनर्बन्धकस्यायम्, व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु ॥३६९॥ (यो०बि०) अपुनर्बन्धकस्य उपलक्षणात्सम्यग्दृष्टेश्च 'व्यवहारेण' कारणे कार्यत्वोपचारेण 'तात्त्विकः', कारणस्यापि कथञ्चित्कार्यत्वात् । 'निश्चयेन'-उपचारपरिहारेण 'उत्तरस्य तु चारित्रिण एव । सकृद्वन्धकादीनां तु स्थानादिकमशुद्धपरिणामत्वान्निश्चयतो व्यवहारतश्च न योगः किन्तु योगाभास इत्यवधेयम् । उक्तं च-"सकृदावर्तनादीनामतात्त्विक उदाहृतः । प्रत्यपायफलप्रायस्तथा वेषादिमात्रतः ॥३७०॥" (यो० बिं०) सकृद्-एकवारमावर्तन्ते उत्कृष्टां स्थिति बध्नन्ति ये ते सकृदावर्तनाः, आदिशब्दाद् द्विरावर्तनादिग्रहः, 'अतात्त्विकः' व्यवहारतो निश्चयतश्चातत्त्वरूपः ॥३॥ (यो०वि० गा० ३) 27/2 तदेवं स्थानादियोगस्वामित्वं विवेचितम्, अथैतेष्वेव प्रतिभेदानाह[113] इक्किक्कोय चऊद्धा, इत्थं पुण तत्तओ मणेयव्यो । इच्छा-पवित्ति-थिर-सिद्धिभेयओ समयनीईए ॥४॥ 'इक्किको य'त्ति । 'अत्र' स्थानादौ 'पुनः' कर्मज्ञानविभेदाभिधानापेक्षया भूयः एकैकश्चतुर्द्धा 'तत्त्वतः'-सामान्येन दृष्टावपि परमार्थतः 'समयनीत्या'-योगशास्त्रप्रतिपादितपरिपाट्या 'इच्छाप्रवृत्तिस्थिरसिद्धिभेदतः'-इच्छाप्रवृत्तिस्थिरसिद्धिभेदानाश्रित्य 'मुणेयव्वो' त्ति ज्ञातव्यः ॥४॥ (यो०वि०गा०४) 27/3 [114] तानेव भेदान् विवरीषुराह तज्जुत्तकहापीईइ, संगया विपरिणामिणी इच्छा । सव्वत्थुवसमसारं, तप्पालणमो पवत्ती उ ॥५॥ 'तज्जुत्तकहा' इत्यादि । तद्युक्तानां स्थानादियोगयुक्तानां कथायां प्रीत्या अर्थबुभुत्सयाऽर्थबोधेन वा जनितो यो हर्षस्तल्लक्षणया संगता-सहिता 'विपरिणामिनी' विधिकर्तृबहुमानादिगर्भ स्वोल्लासमात्राद्यत्किञ्चिदभ्यासादिरूपं विचित्रं परिणाममादधाना इच्छा भवति, द्रव्यक्षेत्राद्यसामग्रयेणाङ्गसाकल्याभावेऽपि यथाविहितस्थानादियोगेच्छया यथाशक्ति क्रियमाणं स्थानादि इच्छारूपमित्यर्थः । प्रवृत्तिस्तु 'सर्वत्र' सर्वावस्थायाम् 'उपशमसारम्' उपशमप्रधानं यथा स्यात्तथा-'तत्पालनंयथाविहितस्थानादियोगपालनम, 'ओ' त्ति प्राकृतत्वात् वीर्यातिशयाद् यथाशास्त्रमङ्गसाकल्येन विधीयमानं स्थानादि प्रवृत्तिरूपमित्यर्थः ॥५॥ (यो०वि०गा० ५.) 27/4 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506