Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat
View full book text ________________
१८३ [140] अनन्तरपृष्टस्यैवोत्तरमाहसामाइयमाईयं सुयनाणं जाव बिंदुसाराओ। तस्स वि सारो चरणं सारो चरणस्स निव्वाणं ॥११२६॥
तच्च श्रुतज्ञानं सामायिकादि वर्तते, चरणप्रतिपत्तिकाले सामायिकस्यैवादौ प्रदानात् । यावद् बिन्दुसारादिति बिन्दुसाराभिधानचतुर्दशपूर्वपर्यन्तमित्यर्थः, यावच्छब्दादेव च व्यनेकद्वादशपरिमाणं तद् वेदितव्यम् । तस्यापि श्रुतज्ञानस्य सारश्चरणम् सारशब्दोऽत्रप्रधानवचनः, फलवचनश्च मन्तव्यः, तस्मादपि श्रुतज्ञानाच्चारित्रं प्रधानम्, तस्य फलं च तदित्यर्थः । अपिशब्दात् सम्यक्त्वस्यापि साररश्चरणमेव । अथवा, अपिशब्दस्य व्यवहितः संबन्धः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दात् निर्वाणमपीत्यर्थः, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न स्यात्, किन्तु चरणस्यैव ज्ञानरहितस्यापि तत् स्यात्, अनिष्टं चैतत, "सम्यग्दर्शनज्ञान-चारित्राणि मोक्षमार्गः" तथा, "नाण-किरियाहिं मोक्खो" इत्यादिवचनादिति । इह तु ज्ञान-चरणयोः समानेऽपि निर्वाणहेतुत्वे गुण-प्रधानभावख्यापनार्थमित्थमुपन्यासः 'तस्स वि सारो चरणं' इति । 'सारो चरणस्स निव्वाणं ति' अत्र सारशब्दः फलवचनः, चरणस्य संयम-तपो-रूपस्य सारः फलं निर्वाणमित्यर्थः । इहापि शैलेश्यवस्थाभाविसर्वसंवररूपचारित्रमन्तरेण निर्वाणस्याऽभावात्, तद्भावे चावश्यंभावादित्थमुक्तम्, अन्यथा सम्यग्दर्शनादित्रयस्य समुदितस्यैव निर्वाणहेतुत्वमवगन्तव्यम्, शैलेश्यवस्थायामपि क्षायिकदर्शन-ज्ञानयोरवश्यं सद्भावात् । इति नियुक्तिगाथार्थः ॥११२६।। (विशेषा० गा० ११२६) उपसंहार गा०5
[141] रायगिहे नगरे जाव एवं वयासी-अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव एवं परूवेंति-एवं खलु सीलं सेयं १ सुयं सेयं २ सुयं सेयं ३ सीलं सेयं ४, से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि, एवं खलु मए चत्तारि पुरिसजाया पण्णत्ता, तंजहा-सीलसंपन्ने णाआमं एगे णो सुयसंपन्ने १ सुयसंपन्ने नामं एगे नो सीलसंपन्ने २ एगे सीलसंपन्नेवि सुयसंपन्नेवि ३ एगे णो सीलसंपन्ने नो सुयसंपन्ने ४, तत्थ णं जे से पढमे पुरिसजाए से णं पुरिसे सीलबं असुयवं, उवरए अविनायधम्मे, एस णं गोयमा ! मए पुरिसे देसाराहए पण्णत्ते, तत्थ णं जे से दोच्चे पुरिसजाए से णं पुरिसे असीलवं सुयवं, अणुवरए विनायधम्मे, एस णं गोयमा ! मए पुरिसे देसविराहए पण्णत्ते, तत्थ णं जे से तच्चे पुरिसजाए से णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506