Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat

View full book text
Previous | Next

Page 478
________________ १८७ शैलेशी अथवा शीलेश:-सर्वसंवररूपचारित्रप्रभुस्तस्येयमवस्था योगनिरोधरूपेति शैलेशी तां प्रतिपद्यते, ततः 'पुव्वरइयगुणसेढीयं च णं'ति पूर्व-शैलेश्यवस्थायाः प्राग् रचिता गुण श्रेणी-क्षपणोपक्रमविशेषरूपा यस्य तत्तथा, गुणश्रेणी चैवंसामान्यतः किल कर्म बह्वल्पमल्पतरमल्पतमं चेत्येवं निर्जरणाय रचयति, यदा तु परिणामविशेषात्तत्र तथैव रचिते कालान्तरवेद्यमल्पं बहु बहुतरं बहुतमं चेत्येवं शीघ्रतरक्षपणाय रचयति तदा सा गुणश्रेणीत्युच्यते, स्थापना चैवं 'कम्मति वेदनीयादिकं भावोपग्राहि, तीसे सेलेसिमद्धाए'त्ति तस्यां शैलेश्यद्धायांशैलेशीकाले क्षपयन्निति योगः, एतदेव विशेषेणाह-'असंखेज्जाहिं गुणसेढीहिंन्ति असङ्ख्याताभिर्गुणश्रेणीभिः शैलेश्यवस्थाया असङ्ख्यातसमयत्वेन गुणश्रेण्यप्यसङ्ख्यातसमया ततः तस्याः प्रतिसमयभेदकल्पनया असङ्ख्याता गुणश्रेणयो भवन्ति, अतोऽसङ्ख्याताभिः गुणश्रेणीभिरित्युक्तम्, असङ्ख्यातसमयैरिति हृदयम्, 'अणंते कम्मंसे खवयंतो 'त्ति अनन्तपुद्गलरूपत्वादनन्तांस्तान् कर्मांशान्-भवोपग्राहिकर्मभेदान् क्षपयन्-निर्जरयन् ‘वेयणिज्जाउयणामगोए'त्ति वेदनीयं सातादि आयु:मनुष्यायुष्कं नाम-मनुष्यगत्यादि गोत्रम्-उच्चैर्गोत्रम् 'इच्चेते'त्ति इत्येतान 'चत्तारि 'त्ति चतुरः ‘कम्मंसे 'त्ति कर्मांशान्मूलप्रकृती: 'जुगवं खवेइ 'त्ति यौगपद्येन निर्जरयतीति । एतच्चैता भाष्यगाथा अनुश्रित्य व्याख्यातम्, यदुत-"तदसंखेज्जगुणाए सेढीए विरइयं पुरा कम्मं । समए समए खवयं कम्मं सेलेसिकालेणं ॥१॥ सव्वं खवेइ तं पुण निल्लेवं किंचिदुवरिमे समए । किंचिच्च होइ चरमे सेलेसीए तयं वोच्छं ॥२॥ मणुयगइजाइतसबायरं च पज्जत्तसुभगमाएज्जं । अन्नयरवेयणिज्जं नराउमुच्चं जसोनामं ॥३॥ संभवओ जिणनामं नराणुपुव्वी य चरिमसमयंमि । सेसा जिणसंताओ दुचरिमसमयंमि निटुंति' ॥४॥ त्ति 'सव्वाहिं विप्पयहणाहिति सर्वाभि:-अशेषाभिः विशेषेण-विविधं प्रकर्षतो हानयः-त्यागा विप्रहाणयो व्यक्त्यपेक्षया बहुवचनं ताभिः, किमुक्तं भवति ? - सर्वथा परिशाटनं न तु यथा पूर्वं सङ्घातपरिशाटाभ्यां देशत्यागतः 'विप्पजहित्त 'त्ति विशेषेण प्रहाय-परित्यज्य 'उज्जूसेढिपडिवन्ने 'त्ति ऋजुः-अवका श्रेणि:आकाशप्रदेशपङ्क्तिस्ताम् ऋजुश्रेणि प्रतिपन्न:-आश्रितः 'अफुसमाणगई 'त्ति अस्पृशन्ती-सिद्ध्यन्तरालप्रदेशान् गतिर्यस्य सोऽस्पृशद्गतिः, अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धिः, इष्यते च तत्रैक एव समयः, य एव, चायुष्कादिकर्मणां क्षयसमयः सः एव निर्वाणसमयः, अतोऽन्तराले समयान्तरस्याभावादन्तरालप्रदेशानामसंस्पर्शनमिति, सूक्ष्मश्चायमर्थः केवलिगम्यो भावत इति, “एगेणं समएणं 'ति, कृत इत्याह-'अविग्गहेणं'ति अविग्रहेण-वक्ररहितेन, वक्र एव हि समयान्तरं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506