Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat
View full book text ________________
१८८ लगति प्रदेशान्तरं च स्पृशतीति,. 'उठें गंता' ऊर्ध्वं गत्वा 'सागारोवउत्ते'त्ति ज्ञानोपयोगवान् 'सिध्यति' कृतकृत्यतां लभते इति १ ।।
___ गतमानुषङ्गिकमथ प्रकृतमाह-किं च प्रकृतं ?, ‘से जे इमे गामागर जाव सन्निवेसेसु मणुया हवंति-सव्वकामविरया जाव अट्ट कम्मपयडीओ खवइत्ता उम्पि लोयग्गपइट्ठाणा हवंती'ति लोकाग्रप्रतिष्ठानाश्च सन्तो यादृशास्ते भवन्ति तदर्शयितुमाह-'ते ण तत्थ सिद्धा हवंति'त्ति ते पूर्वोद्दिष्टविशेषणा मनुष्याः 'तत्र' लोकाग्रे निष्ठितार्थाः स्युरिति, अनेन च यत्केचन मन्यन्ते, यदुत- रागादिवासना मुक्तम्, चित्तमेव निरामयम् । सदाऽनियतदेशम्, सिद्ध इत्यभिधीयते ॥ १ ॥ __यच्चापरे मन्यन्ते- "गुणसत्त्वान्तर-ज्ञानानिवृत्तप्रकृतिक्रियाः । मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः ॥१॥" तदनेन निरस्तम्, यच्चोच्यतेसशरीरतायामपि सिद्धत्वप्रतिपादनाय, यदुत-"अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते निर्वतात्मानस्तीर्णाः परमदुस्तरम् ॥१॥' इति तदपाकरणायाह-'अशरीरा' अविद्यमानपञ्चप्रकारशरीराः, तथा 'जीवघण'त्ति योगनिरोधकाले रन्ध्रपूरणेन त्रिभागोनाऽवगाहनाः सन्तो जीवघना इति, 'दंसणनाणोवउत्त'त्ति ज्ञानं साकारं दर्शनम्-आनाकारं तयोः क्रमेणोपयुक्ता ये ते तथा, 'निट्ठियट्ठ'त्ति निष्ठितार्थाः-समाप्तसमस्तप्रयोजना: 'निरेयण'त्ति निरेजना:निश्चलाः 'नीरय'त्ति नीरजसो-बध्यमानकर्मरहिता नीरया वा-निर्गतौत्सुक्याः, निम्मल'त्ति निर्मला: पूर्वबद्धकर्म-विनिर्मुक्ताः द्रव्यमलवर्जिता वा "वितिमिर 'त्ति विगताज्ञानाः । “विसुद्ध 'त्ति कर्मविशुद्धिप्रकर्षमुपगताः । ‘सासयमणागयद्धं कालं चिटुंति' शाश्वतीम्-अविनश्वरी सिद्धत्वस्याविनाशाद्, अनागताद्धा-भविष्यत्कालं तिष्ठन्तीति २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506