Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat
View full book text ________________
मभ्युपगम्याभिधानं विकलादेशः, न तु केवलसिंहसिंहत्ववदेकात्मकैकत्वपरिग्रहात्, यथा च प्रतिपादनोपायार्थपरिकल्पितानेकनीलपीतादिभागा निर्विभागमनेकात्मकमेकं चित्रं सामान्यरूपमुच्यते, तथा वस्त्वप्यनेकधर्मस्वभावमेकम्, दृष्टचाभिन्नात्मनोऽर्थस्य भिन्नो . गुणो भेदकः, परुद्भवान् पटुरासीत् पटुतर एष सोऽन्य एवाभिसंवृत्तः, पटुत्वातिशयो गुणः सामान्यपाटवाद् गुणादन्यः, स वस्तुनो भेदं कल्पयति, भिन्नप्रयोजनार्थिना तथाश्रितत्वात्, अनेकात्मकं चैकत्वमात्मादेः, यतोऽनेकं शुद्धाशुद्धं द्रव्यार्थमाश्रित्य पर्यायनयं चैकात्मनो वृत्तिस्तथात्मकोऽसौ तद्भावभावित्वाद्, घटमृदात्मकत्ववत् पुरुषपाण्याद्यात्मकत्ववद् वा, अतस्ते तस्यारम्भकत्वाद् भागाः पुरुषस्येव पाण्यादयो वस्त्वंशमनुभवन्ति क्रमेण वृत्ताः क्रमयोगपद्याभ्यां वा, चतुर्थे तावत् समुच्चयात्मके न क्रमेण वृत्ताः, पञ्चमषष्ठयोरपचितक्रमयुगपद् वृत्ताः, सप्तमे प्रचितक्रमयोगपद्याभ्यां वृत्ताः संश्चासंश्चावक्तव्यश्चेत्यनेकबुद्धिबुद्धित्वाद् अनेकबुद्धिहि बुद्धिर्भवति द्रव्यपर्यायेषु सत्सु व्यात्मिका, यतोऽनेकां सद्रूपामसद्रूपामवक्तव्यरूपां च बुद्धि भिन्नामिव क्रमवतीमिवाश्रित्याभिन्नैकाक्रमावस्तुरूपा वाक्यार्थबुद्धिर्भवति, तस्माद् भेदक्रमप्रतिभासविज्ञानहेतुत्वाद् भागास्ते भवन्त्यत्राविभक्तस्यैकस्यापि वस्तुनः । एवं चानेकस्वभावेऽर्थे सति वक्तुरिच्छावशात् कदाचित् केनचिद् रूपेण वक्तुमिष्यते, विवक्षायत्ता च वचसः सकलादेशता विकलादेशता च द्रष्टव्या, द्रव्यार्थजात्यभेदात् तु सर्वद्रव्यार्थभेदानेवैकं द्रव्यार्थं मन्यते, यदा पर्यायजात्यभेदाश्चैकं पर्यायार्थं सर्वपर्यायभेदान् प्रतिपद्यते तदा त्वविवक्षितस्वजातिभेदत्वात् सकलं वस्त्वेकद्रव्या- र्थाभिन्नमेकपर्यायार्थाभेदोपचरितं तद्विशेषैकाभेदोपचरितं वा तन्मात्रमेकमद्वितीयांशं ब्रुबन् सकलादेशः स्यान्नित्य इत्यादिस्त्रिविधोऽपि नित्यत्वानित्यत्वयुगपद्भावैकत्वरूपैकार्थाभिधायी, यदा तु द्रव्यपर्यायसामान्याभ्यां तद्विशेषाभ्यां वा तद्योगपद्येन वा वस्तुन एकत्वं तदतदात्मकं समुच्चयाश्रयं चतुर्थविकल्पे स्वांशयुगपवृत्तं क्रमवृत्तं च पञ्चमषष्ठसप्तमेषूच्यते तथाविवक्षावशात् तदा तु तथाप्रतिपादयन् विकलादेशः, ते हि द्रव्यपर्यायास्तस्य देशाः तदादेशेनादेश एको ह्यनेकदेश आत्माऽभिधीयते, तत्र द्रव्यार्थसामान्येन तावद् वस्तुत्वेन सनात्मा, पर्यायसामान्येनावस्तुत्वेनासन्निति, विशेषस्त्वात्मनि स्वद्रव्यत्वात्मत्वचेतनत्वद्रष्टुत्वज्ञातृत्वमनुष्यत्वादिरनेको द्रव्यार्थभेदः, तथा श्रुतप्रतियोगिनः पर्याया असत्त्वाद्रव्यत्वानात्मत्वाचेतनत्वादयः, तद्रव्यक्षेत्रकालभावसम्बन्धजनिताश्च द्रव्यपर्यायवृत्तिभेदाः, तत्र द्रव्यादेशात् स्वद्रव्यतया द्रव्यत्वम्, पृथिव्यादित्वेनाद्रव्यत्वं तद्विशेषैश्च घटादिभिः, क्षेत्रतोऽसङ्ख्याताकाशदेशव्यापितया, न सर्वव्यापितया, कालतः स्वजात्यनुच्छेदादभिन्नकालता, पर्यायादेशाद् घटादिविज्ञानदर्शनभेदाः क्रोधाद्युत्कर्षापकर्षभेदाश्च, तथाऽनन्तकालवृत्तस्ववर्तनाभेदात् कालभेदः, भावतो ज्ञत्वं क्रोधादिमत्त्वं च, एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506