Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat
View full book text ________________
१७०
भगवता साक्षान्मातृकापदरूपतयाभिधानात् । तथा चार्षम् - उपन्नेइ वा विगमेइ वा धुवेइ वा' इत्यदोषः ।
मत्सरित्वाभावमेव विशेषणद्वारेण समर्थयति । नयानशेषानविशेषमिच्छन् इति । अशेषान्-समस्तान् नयान्- नैगमादीन् अविशेषं - निर्विशेषं यथा भवति एवम् इच्छन्-आकाङ्क्षन् सर्वनयात्मकत्वादनेकान्तवादस्य । यथा विशकलितानां मुक्तामणीनामेकसूत्रानुस्यूतानां हारव्यपदेशः । एवं पृथगभिसन्धीनां नयानां स्याद्वादलक्षणैकसूत्रप्रोतानां श्रुताख्यप्रमाणव्यपदेश इति । ननु प्रत्येकं नयानां विरुद्धत्वे कथं समुदितानां निर्विरोधिता ? उच्यते - यथा हि समीचीनं मध्यस्थं न्यायनिर्णेतारमासाद्य परस्परं विवदमाना अपि वादिनो विवादात् विरमन्ति, एवं नया अन्योऽन्यं वैरायमाणा अपि सर्वज्ञशासनमुपेत्य स्याच्छब्दप्रयोगोपशमित विप्रतिपत्तयः सन्तः परस्परमत्यन्तं सुहृद्भूयावतिष्ठन्ते । एवं च सर्वनयात्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वमविरुद्धमेव, नयरूपत्वाद् दर्शनानाम् ।
न च वाच्यं तर्हि भगवत्समयस्तेषु कथं नोपलभ्यते इति । समुद्रस्य सर्वसरिन्मयत्वेऽपि विभक्तासु तासु अनुपलम्भात् । तथा च वक्तृवचनयोरैक्यमध्यवस्य श्रीसिद्धसेनदिवाकरपादाः
उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः ॥
अन्ये त्वेवं व्याचक्षते । यथा अन्योऽन्यपक्षप्रतिपक्षभावात् परे प्रवादा मत्सरिणस्तथा । तव समयः सर्वनयान् मध्यस्थतयाङ्गीकुर्वाणो न मत्सरी । यतः कथंभूतः ? पक्षपाती-पक्षमेकपक्षाभिनिवेशम् पातयति तिरस्करोतीति पक्षपाती, रागस्य जीवनाशं नष्टत्वात् । अत्र च व्याख्याने मत्सरीति विधेयपदम् पूर्वस्मिंश्च पक्षपातीति विशेष: । अत्र च क्लिष्टाक्लिष्टव्याख्यानविवेको विवेकिभिः स्वयं कार्यः । इति काव्यार्थः ||३०|| (स्याद्वा०मं० गा० ३०) 32/2
[131] सर्वनयमये भगवत्प्रवचने सर्वाणि दर्शनानि सन्निविष्टानि, एवमपि ततः भक्तेष्वेकान्तताकलुषितेषु न भवतो दर्शनम्, समुद्रान्तः सन्निविष्टानां नदीनां ततः प्रविभक्तावस्थायां तासु समुद्रादर्शनमिवेत्याह
उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि सर्वदृष्टयः ।
न च तासु भवानुदीक्ष्यते, प्रविभक्तासु सरित्स्विवोदधिः ||१५|| उदधाविवेति — उदधौ सर्वसिन्धव इव त्वयि सर्वदृष्टयः समुदीर्णाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506