Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat
View full book text ________________
१८० सर्ग-स्थित्युपसंहारान्, युगपद् व्यक्तशक्तितः । युगपच्च जगत् कुर्यात्, नो चेत् सोऽव्यक्तशक्तिकः ॥ न व्यक्तशक्तिरीशोऽयम्, क्रमेणाप्युपपद्यते । व्यक्तशक्तिरतोऽन्यश्चेत्, भावो ह्येकः कथं भवेत् ॥ ()
एवं कालस्यापि पर्यायेण वसन्ताद्यभिव्यक्तिप्रवृत्तावयमेव दोषः । भावास्तु शीतोष्णादिपरिणतिभाजः प्रतिक्षणविशरारवः कथंचित् काल इत्यभिधानाभिधेयाः प्राग् व्यवस्थापिताः । अथ न क्रीडाद्यर्था भगवतः प्रवृत्तिः किन्तु पृथिव्यादिमहाभूतानां यथा स्वकार्येषु स्वभावत एव प्रवृत्तिः तथेश्वरस्यापीति, अयुक्तमेतत्, एवं हि तद्व्यापारमात्रभाविनामशेषभावानां युगपद् भावो भवेत् अविकलकारणत्वात् सहकार्यपेक्षापि न नित्यस्य संगता इत्युक्तम् । पुरुषवादिनां तु केवलस्यैव पुरुषस्य जगत्कारणत्वेनाभ्युपगमात्तदपेक्षा दुरापास्तैव । पृथिव्यादिमहाभूतानां तु स्वहेतुबलायाताऽपरापरस्वभावसद्भावान्न तदुत्पाद्यकार्यस्य युगपदुत्पत्त्यादिदोषः संभवी ।
न च यथोर्णनाभः स्वभावतः प्रवृत्तोऽपि न स्वकार्याणि युगपद् निर्वर्तयति तथा पुरुषोऽपीति वाच्यम्, यत ऊर्णनाभस्यापि प्राणिभक्षणलाम्पट्यात् स्वकार्ये प्रवृत्तिर्न स्वभावतः, अन्यथा तत्राप्यस्य दोषस्य समानत्वात् । न ह्यसौ नित्यैक स्वभावः अपि तु स्वहेतुबलभाव्यपरापरकादाचित्कशक्तिमानिति । तद्भाविनः कार्यस्य क्रमप्रवृत्तिरुपपन्नैव। न च यथा कथंचिदबुद्धिपूर्वकमेव पुरुषो जगन्निवर्तने प्रवर्तते प्राकृतपुरुषादप्येवमस्य हीनतया प्रेक्षापूर्वकारिणामनवधेयवचनताप्रसक्तेः । एवं प्रजापतिप्रभृतीनामपि जगत्कारणत्वेनाभीष्टानां निरासो द्रष्टव्यः न्यायस्य समानत्वात् । तन्न कालाघेकान्ताः प्रमाणतः सम्भवन्तीति तद्वादो मिथ्यावाद इति स्थितम् । त एवान्योन्यसव्यपेक्षा नित्यायेकान्तव्यपोहेनैकानेकस्वभावाः कार्यनिर्वर्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तत्प्रतिपादकस्य शास्त्रस्यापि सम्यक्त्वमिति तद्वादः सम्यग्वादतया व्यवस्थितः ॥५३॥ (सन्म०कां०३, गा०५३) 3214 [137] शुष्कवादो विवादश्च, धर्मवादस्तथापरः ।
इत्येष त्रिविधो वादः, कीर्तितः परमर्षिभिः ॥१॥ वृत्तिः- शुष्क इव शुष्को नीरसः, गलतालुशोषमात्रफल इत्यर्थः, स चासौ वादश्च कमपि विप्रतिपत्तिविषयमाश्रित्य प्रतिवादिना सह वदनं "शुष्कवादः" तथा विरूपो जयप्राप्तावपि परलोकादिबाधको वादः 'विवादः' 'चशब्द:-' उक्तसमुच्चये, तथा धर्मप्रधानो वादो ‘धर्मवादः' 'तथा' तेनात्यन्तमाध्यस्थादिना धर्महेमकषादिपरीक्षालक्षणेन वा प्रकारेण, समुच्चयार्थो वा 'तथाशब्दः', 'परः' प्रधानः, अपरो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506