Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, Ramyarenu
Publisher: Kailashnagar Jain Sangh Surat

View full book text
Previous | Next

Page 469
________________ १७८ यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवाऽवतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्तते ॥ () तथा चस्वकर्मणा युक्त एव, सर्वो ह्युत्पद्यते नरः । स तथाऽऽकृष्यते तेन, न यथा स्वयमिच्छति ॥ () तथाहि-समानमीहमानानां समानदेश-काल-कुलाऽऽकारादिमतामर्थप्राप्त्यप्राप्ती नाऽनिमित्ते युक्ते अनिमित्तस्य देशादिप्रतिनियमाऽयोगात् । न च परिदृश्यमानकारणप्रभवे, तस्य समानतयोपलम्भात् न चैकरूपात् कारणात् कार्यभेदः तस्याहेतुकत्वप्रसक्तेः अहेतुकत्वे च तस्य कार्यस्यापि तद्रूपतापत्तेः भेदाभेदव्यतिरिक्तस्य तस्यासत्त्वात् । ततो यन्निमित्ते एते तद् दृष्टकारणव्यतिरिक्तमदृष्टं कारणं कर्मेति । असदेतत्-कुलालादेर्घटादिकारणत्वेनाध्यक्षतः प्रतीयमानस्य परिहारेणाऽपराऽदृष्टकारणप्रकल्पनायां तत्परिहारेणापरापराऽदृष्टकारणकल्पनयाऽनवस्थाप्रसङ्गतः क्वचिदपि कारणप्रतिनियमानुपपत्तेः । न च स्वतन्त्रं कर्म जगद्वैचित्र्यकारणमुपपद्यते तस्य कर्बधीनत्वात् । न चैकस्वभावात् ततो जगद्वैचित्र्यमुपपत्तिमत् कारणवैचित्र्यमन्तरेण कार्यवैचित्र्यायोगात्, वैचित्र्ये वा तदेककार्यताप्रच्युतेः, अनेक-स्वभावत्वे च कर्मणो नाममात्रनिबन्धनैव विप्रतिपत्तिः, पुरुष-काल-स्वभावादेरपि जगद्वैचित्र्यकारणत्वेनाऽर्थतोऽभ्युपगमात्, न च तेन चेतनवताऽनधिष्ठितमचेतनत्वात् वास्यादिवत् कर्म प्रवर्त्तते । अथ तदधिष्ठायक: पुरुषोऽभ्युपगम्यते न तहि कर्मकान्तवादः, पुरुषस्यापि तदधिष्ठायकत्वेन जगद्वैचित्र्यकारणत्वोपपत्तेः । न च केवलं किंचिद् वस्तु नित्यमनित्यं वा कार्यकृत् सम्भवतीत्यसकृत् प्रतिपादितम् । तन्न कर्मैकान्तवादोऽपि युक्तिसंगतः । पुरुषैककारणवादमुपन्यस्य तस्यैकान्तिकत्वनिरास:] अन्यस्त्वाह-'पुरुष एवैकः सकललोकस्थिति-सर्ग-प्रलयहेतुः प्रलयेऽपि अलुप्तज्ञानातिशयशक्तिः इति । तथा चोक्तम् ऊर्णनाभ इवांशूनाम्, चन्द्रकान्तः इवाऽम्भसाम् । प्ररोहाणामिव प्लक्षः, स हेतुः सर्वजन्मिनाम् ॥३॥ तथा, 'पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम्' ( ) इत्यादि । ऊर्णनाभोऽत्र मर्कटको व्याख्यातः । अत्र सकललोकस्थितिसर्ग-प्रलयहेतुतेश्वरस्येव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506